________________
श्रुत्वेति जहषुः शिष्याः, गुरोः श्लाघां वितेनिरे । धन्यस्त्वमेव यस्येत्थं, वशिनस्त्रिदशा अपि ।।१८।।
अथ प्रभाते मञ्जूषा, सा प्राप्ता तन्मठान्तिके । आनाय्य तां च शिष्येभ्यो, मठमध्ये व्यमोचयत् ।।१९।।
ददौ च शिक्षां शिष्येभ्यः, प्रच्छन्नं तापसः पुनः । किमप्यस्यां रहस्यं भोः !, भावि तत श्रयतां वचः ।।२०।।
एतामुद्घाटयिष्यामि, मठान्तविधिपूर्वकम् । कपाटसम्पुटं दत्त्वा, ध्यानमालम्ब्य च स्थिरम् ।।२१।।
विना मदुक्तं नोद्धाट्यौ, कपाटो हि विनेयकाः ।। असमग्रो विधिर्येन, योगिनामप्यनर्थकृत् ।।२२।।
तथेति प्रतिपन्ने तै-मठान्तर्गतवान् गुरुः ।। मनोरथेन महतो-द्धाटयामास तामयम् ।।२३।। ।
तदा तत्संमुखं ते द्वे, निर्गत्योच्छलिते द्रुतम् ।' . मर्कट्यौ क्रूरनखरे, क्षुधिते चञ्चले भृशम् ।।२४।।
ताभ्यां तदीया जगृहे, नासिका सरलोन्नता । कपोलौ विपुलौ छिन्नौ, भालं च शकलीकृतम् ।।२५।।
परानपीवरं तस्यो-दरमप्याशु दारितम् । भक्षितो भक्षितः शिष्याः !, इति कोकूयते ततः ।।२६।।
२७६ उपदेश सप्तति