________________
__ "उपदेश:-९" विषयामिषलम्पटो जनः, सहतेऽत्रैव भवे विडम्बनाम् । यजमानविगोपितो यथा, लघुतां प्राप स तापसब्रुवः ।।१।।
पुरा श्रीचम्पकपुरे, श्रेष्ठी श्रेष्ठगुणोझयः । चकोरनामा सञ्जात-चकोर इव कोविदः ।।१।।
धर्मकृत्यरतोऽप्येष, तापसेषु परं सदा । कुरुतेऽत्यादरं धर्म-परीक्षा खलु दुर्लभा ।।२।।
अन्यदा पर्वणि क्वाऽपि, तेनैकः कोऽपि तापसः । निमन्त्रितो गृहे भुक्त्यै, भोजयामास तं च सः ।।३।।
उदरंभरिणा तेन, भुञ्जानेन दुरात्मना । गौरवर्णं लम्बकर्णं, दृष्टं श्रेष्ठिसुताद्वयम् ।।४।।
आपादमस्तकं रम्यं, तद्रूपं तस्य पश्यतः । मार उजागरो जातो, निर्विवेका हि तादृशाः ।।५।।
यजमानपुरोऽवादीद्भोजनानन्तरं जटी। प्रच्छन्नं निजशिष्येभ्यः, परित्यज्य त्रपामपि ।।६।।
कस्येदं तनयाद्वन्द्वं ?, स प्राह भगवन्मम । तदिदं दीयतां मां, गुरुभक्तो भवान् यतः ।।७।।
आत्मनो वल्लभं यत्त-निर्विचारेण चेतसा । गुरुभ्यो देयमेकान्त-मक्षयं हितमिच्छुना ।।८।।
२७४ उपदेश सप्तति