________________
कस्मान्न जगृहे ? मूर्ख !, दोषः को मेऽवशत्वतः । एवं ताभ्यां चिरं चक्रे, कलहो बहुलस्तदा ।। ३३ ।।
अनालोचितत्पापौ, तौ मातृतनयौ तव । सुताजामातरौ जातौ तदिदं भवनाटकम् ।।३४।।
येन यादृग्वचः प्रोक्तं, स तादृक् फलमश्नुते । ततस्तत्त्वमिदं श्रेष्ठिन् !, कार्यो वचनसंवरः ।। ३५ ।।
श्रुत्वेति तस्य सविधे व्रतमाप्य साधोः, श्रेष्ठी बभूव सुखभाग् रतिसारनामा भ्रान्तौ च तौ भवमनन्तमिति प्रबुध्य, वाच्यं विचार्य वचनं मधुरं मिंतं च ॥ १३६ ॥ ।
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे पञ्चम उपदेशः ।। ५ ।।
२५८ उपदेश सप्तति