________________
अवाप्य फलकं चैक, बन्धुदत्तस्तदाऽम्बुधिम् । लग्नस्तरीतुं वातेन, प्रेरितश्च तटेऽलगत् ।।७।।
निभालयति दिक्चक्रं, यावदुद्भ्रान्तलोचनः । . तावत्तनगरोद्याने, प्राप्तमात्मानमैक्षत ।।८।।
अहो ! दैवगतिः केयं ?, लज्यते यत्र मानवैः । ईदृक्षोऽहं कथं गन्ता ?, तत्र श्वशुरमन्दिरे ।।९।।
स्त्रीपीहर नरसासरउ, संजमियां सहवास । एत्रिण्हइ अलखामणां, जइ को करई तपास ।।१।।
अतर्कितानि सौख्यानि, दुःखान्यपि शरीरिणाम् । भवन्ति तदलं क्लेश-हेतुना चिन्तयाऽनया ।।१०।।
विचिन्त्येति स्थितो देव-कुले ज्ञापितवानसौ । श्वशुरस्य गृहे स्वस्य, तत्र प्राप्त्यादि केनचित् ।।११।।
श्रुत्वा जामातृवार्ता तां, मनःसन्तापकारिणीम् । आः ! किमेतदिति श्रेष्ठी, प्रोझरन् सहसोत्थितः ।।१२।।
यावत्तदन्तिके याति, तावदस्तङ्गतो रविः । उत्सूरत्वात्कुटुम्बेन, वारितः स्वगृहे स्थितः ।।१३।।
ब्रा मुहूर्ते जामातृ-मिलनाय चचाल सः । आदाय वस्त्राभरण-प्रभृत्यवसरोचितम् ।।१४।।
२५५ उपदेश सप्तति