________________
कृषिः कृषीबलेः कर्तु-मारेभे मुदिताशयैः ।। क्षेत्रेषु बीजान्युप्तानि, सुपात्रेष्विव धार्मिकैः ।।१७।।
अन्यवर्षीयनिष्पत्ते-निष्पत्तिर्द्विगुणाऽभवत् । तस्मिन्वर्षे नृपोऽप्यासी-त्सपौरो बहुलर्द्धिकः ।।१८।।
निवृत्ते कार्तिक मासे, हेमन्तसमयेऽन्यदा। . आययुः केचिदाचार्याः, केवलज्ञानशालिनः ।।१९।। .
सदैवज्ञः सपौरस्ता-न्वन्दितुं नृपतिर्गतः । नैमित्तिकोक्त्यलीकत्व-हेतुं पप्रच्छ तं च सः ।।२०।।
अवोचन्सूरयो राजन् !, अत्रैव तव पत्तने । धनदत्त इति श्रेष्ठी, तस्य भार्या धनेश्वरी ।।२१।।
तयोरन्येधुरुत्पन्नः, सुतः सर्वसुखावहः । यस्य प्रभावतो वृष्टो, मेघो युष्मादृशां मुदे ।।२२।। ।
अयं हि प्राग्भवे रङ्को, भिक्षावृत्तिरभूत् क्वचित् । दृष्ट्वाऽन्यदा मुनि कञ्चि-द्ववन्दे हर्षपूरितः ।।२३।।
गृहाण नियमान्कांश्चि-दिति तं संयतो जगौ । अन्यथाऽपि तवेदानी, सम्पत्तिर्नास्ति तादृशी ।।२४।।
ततस्तदन्तिके देवनत्यादीनियमानसौ । प्रतिपेदे क्रमाद्भाग्यः, सोऽपि जातो महर्द्धिकः ।।२५।।
२३९ उपदेश सप्तति