________________
तदन्यायविधातारं सर्वे जानन्ति मानवाः । न कोऽपि भाषते किन्तु, तत्सुताऽनर्थशङ्कया ।। २१ ।।
अतिप्रश्रेऽपि भूपस्य, यावत्कोऽपि न भाषते । तावत् क्रुद्धो नृपः प्राह, सभ्रूक्षेपमिदं वचः ।। २२ ।।
आः ! पापिनो भवन्तोऽपि, यदीदृगसमञ्जसम् । दृष्टमप्युच्यते यन्त्र, धिग्वस्तत्पक्षपातिनः ।। २३ ।।
तदैव भोक्ष्ये यद्येत - त्पापकारी नराधमः । माग्रे प्रकटो भावी - त्यभिग्रहमथाऽग्रहीत् ।।२४।।
तस्य न्यायैकनिष्ठस्य, सन्ध्यावधि निषेदुषः । तद्दिने लङ्घनं जात-महो ! न्यायप्रधानता ।। २५ । ।
सन्ध्यायां मन्दिरे प्राप्त-स्तनयस्तस्य भूपतेः । प्राह स्वकृतमन्यायं मम दण्डं कुरु प्रभो ! ।। २६ ।।
स्वपुत्रकृतमन्यायं श्रुत्वा दूनो नराधिपः । स्वर्णेनापि हि किं तेन, कर्णच्छेदो भवेद्यतः ।। २७ ।।
प्रातः पर्षदि भूपेन, पृष्टा नीतिविशारदाः । अस्य पुत्रस्य को दण्डो, विधेय ? इति कथ्यताम् ।। २८ ।।
उक्तं तैरेक एवायं, राज्यार्हस्तनयस्तव । एकलोचनसङ्काशः, कोऽस्य दण्डो भवेत्प्रभो ! ।। २९ ।।
२२४ उपदेश सप्तति