________________
धूर्तेन तेन भूपेन, प्रेषितोऽहमिह प्रभो ! । अस्तु मे मरणं तेन, तद्ग्रासाऽनृण्यमिच्छतः ।।३६।।
सप्रगल्भमिति प्रोच्य, शस्त्री कुक्षौ क्षिपत्ययम् । यावत्तावत्करे राजा, धृत्वा तं निरवारयत् ।।३७।।
मरिष्याम्येव देवाऽहं, निषेधः क्रियते कुतः ? । स्वामिकायें यदि प्राणा, यान्ति तद्यान्तु गत्वराः ।।३८।।
सौवणिकसहस्रेण, पञ्चशत्या च वाजिनाम् । निषिध्य म्रियमाणं तं, स्वदेशादप्यचीकृषत् ।।३९।।
महताडम्बरेणैष, भीमभूपं प्रणेमिवान् । यथाजातं च वृत्तान्तं, स्वं जगौ स सविस्तरम् ।।४०।।
ततः प्रभृत्येष नृपादिकानां, बभूव मान्यो निजवाक्कलातः । तत्रैव तेन क्रियतां मनः स्वं, लोकद्वये वः सुखिता यथा स्यात् ।।४१।।
।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे नवम उपदेशः ।।९।।
२२० उपदेश सप्तति ..