________________
निजवाक्कलयैवाऽहं, जीवामि तव किं ? नृप ! | एवं विवादे भूयोऽपि तं तत्र प्रेषयन्नृपः ।। २६ ।।
अर्पितो मुद्रितो लेख-स्तदानीं तस्य भूभुजा । क्रमात्तत्र गतो दूतो, यत्रास्ते भोजभूपतिः ।। २७ ।।
तदा च स्नानपीठस्थो, वारिक्लिन्नशिरा नृपः । तमालाप भो दूत !, स्वागतं तव वर्त्तते ।। २८ ।।
हास्येन पृष्टं भूपेन, भीमडो नापितस्तव । स्वामी पत्तनवास्तव्यः, किं कुर्व्वन्नस्ति साम्प्रतम् ।।२९।।
सोऽप्याह राज्ञां शीर्षाणि, बहूनामस्ति मुण्डयन्ं । तवाप्याद्रीकृतेऽमुष्मिन्, नायात्यद्यापि वारकः ।। ३० ।।
मुदितस्तेन वाक्येन, स्वर्णजिह्वामदापयत् । यद्वा न रोचते कस्मै, वचनं समयोचितम् ।। ३१
अथ लेख तमुन्मुद्र्य, यावद्वाचयति स्वयम् । . तत्राऽपश्यदयं तावद्, दूतो व्यापाद्यतामिति ।। ३२ ।।
क्षणं विमृश्य दूताग्रे, तं तथावृत्तमाह सः । आकारगोपनं कृत्वा, दूतोऽप्येवमुवाच तम् ।।३३।।
श्रूयतामद्य राजेन्द्र !, स्मृता मे जन्मपत्रिका । तस्यां लिखितमित्यस्ति, दैवज्ञेन हितैषिणा ।। ३४ ।।
पञ्चाशत्तमवर्षेऽस्या- वलिकास्ति विपत्करी । यत्र चास्य मृतिस्तत्र, दुर्भिक्षं द्वादशाद्विकम् ।।३५।।
२१९ उपदेश सप्तति