________________
मुद्रां दत्त्वा च तद्धस्ते-ऽपयित्वा तं जगौ नृपः । मत्प्राभृतमिदं तस्मै, ढौकनीयं नृपाय भोः ! ।।९।।
चचाल दूतः क्षेमेण, श्रीधारानगरे गतः । मिलितो भोजभूपस्य, तद्रूपं वीक्ष्य सोऽप्यवक् ।।१०।।
यौष्माकाऽधिपसन्धिविग्रहपदे दूताः कियन्तो द्विज ! ।' मादृक्षा बहवोऽपि मालवपते ! ते सन्ति तत्र त्रिधा । प्रेष्यन्तेऽधममध्यमोत्तमधियः प्रेष्यानुरूपक्रमातेनान्तःस्मितमुत्तरं विदधता धाराऽधिपो रञ्जितः ।।११।।.
विस्मितो हदि भूपाल-स्तं सस्नेहमवादयत् । मुक्तं तेनापि तस्याग्रे, प्राभृतं तबृपार्पितम् ।।१२।।
सम्भूय पार्षदाः सर्वे, दृष्ट्वा स्वर्णसमुद्रकम् । किमप्यपूर्वभाव्यत्रेत्यभूवन दर्शनोत्सुकाः ।।१३।।
यावदुद्घाटयामास, परःशतमनोरथैः । .. रक्षां वीक्ष्य विलक्षास्यो, नृपः किमिदमित्यवक् ।।१४।।
दूतोऽपि दध्यौ पापेन, नूनं तेन महीभुजा । ममोजासनमारेभे, वे तत्समयोचितम् ।।१५।।
देवावधार्यतामस्म-स्वामिना शान्तिहेतवे । अश्वानां मानवानां च, पीडितानां रुजां भरैः ।।१६।।
२१७ उपदेश सप्ततिः