________________
वास्तव्याऽऽगामका लोका-स्तं किशोरकुमारकम् । दर्श दर्श प्रशंसन्ति, जात्योऽयं भविता हयः ।।८।।
परमस्यापि देवेन, कृतं काणत्वदूषणम् । रत्नदोषी विधिरहो !, यदन्यत्रापि पठ्यते ।।९।।
शशिनि खलु कलङ्कः कण्टकाः पद्मनाले। .
एवं लोककृताः श्रुत्वा, स प्रशंसास्तुरङ्गमः । आगत्य मातुरभ्यर्णं, निजगाद सगद्गदम् ।।१०।।
मातः ! कथय मे जातं, कथं काणत्वदूषणम् ? । निर्बन्धे सति साप्याह, तत्स्वरूपं स्वभाषया ।।११।।
यदा त्वं वत्स ! गर्भेऽभू-स्तदा मह्यमसौ नृपः ।। कशाघातं ददौ स त्व-अक्षुःस्थाने समागतः ।।१२।।
तेन त्वमक्ष्णा काणोऽभू-र्नान्यथा भवितव्यता । . , इति श्रुत्वा स तेजस्वी, भृशं रोषारुणो जगौ ।।१३।।
मातः ! कोऽयं नृपपशु-र्यस्त्वामप्यपराध्यति । सुप्तः प्रबोधितः सिंह-स्तदनेन मुमूर्षुणा ।।१४॥..
न चेद्व्यापादयाम्येन-मचिरेण तदा तव । न भवामि सुतो मातः !, सस्नेहं साऽप्युवाच तम् ।।१५।।
मा वादीरिति येनायं, राजा विश्वोदरंभरिः । आवां पशू अयं त्वात्म-स्वामी निर्वाहकारकः ।।१६।।
wwwwwwwwwwwwwwwwwwxxxx
२०९
उपदेश सप्तति