________________
स कौतुकी द्वितीये तु, दिने जाते तमोभरे । प्रागेव शुषिरे तत्र, प्रौढे काष्ठे प्रविष्टवान् ।।१८।।
तथैवारुह्य ते तत्र, जग्मतुः स्वेप्सितं पदम् । प्रवृत्ते क्रीडितुं मुक्त्वा, तत्काष्ठं क्वापि भूतले ।।१९।।
अन्या अपि स्त्रियः सन्ति, मिलितास्तत्र भूरिशः । चिरं क्रीडारसस्ताभि-श्चक्रे तत्राऽविशङ्कितम् ।।२०।।
तत्कोटराद्विर्निगत्य, कुमारोऽपि भ्रमन् क्वचित् । स्वर्णेष्टिकाभिराकीर्ण-मिष्टिकापाकमैक्षत ।।२१।।
उत्फुल्लनयनश्चेत-स्यचिन्तयदयं तदा । । स्वर्णद्वीपो ह्ययं नूनं, श्रूयते यो जनोक्तिभिः ।।२२।।
यः प्राप्य क्लेशकोटीभिनिःस्वैः स्वप्नेऽपि नेक्ष्यते । अयत्नेनापि सम्प्राप्तो, मया भाग्यं महन्मम ।।२३।।
द्वित्राः स इष्टिकाः साराः, सन्तोषी जगृहे ततः । मनस्वी नहि लोभी स्यात, सति लाभेऽपि भयसि ।।२४।।
तथैव कोटरे तत्र, स संलीनवपुः स्थितः । स्वाङ्गोपाङ्गानि सङ्कोच्य, प्रावृषीव महामुनिः ।।२५।।
क्रीडित्वा सुचिरं ते अ-प्यागते तत्र निर्भये । तथैवोत्पतिते व्योम्नि, क्रमाश गृहमागते ।।२६।। '
२०५ उपदेश सप्ततिः