________________
शुद्धबुद्धिर्धर्म्मबुद्धि-स्तदा चेतस्यचिन्तयत् । अहो ! धृष्टत्वमेतस्य, अहो ! कपटपाटवम् ।।१८।।
मम श्रीधर्म एवात्र, सखाऽन्यैः किं सहायकैः । प्रातः परीक्षा कर्त्तव्ये - त्यादि भूपादयोऽब्रुवन् ।। १९ ।।
पापबुद्धिस्ततः प्राह, रात्रौ स्वजनकं प्रति । प्रारब्धोऽयं मया कूट-कलहो निखिलोऽपि हि ।। २० ।। .
कथं कर्त्तासि तातेने-त्युक्तः स प्राह दुष्टधीः । त्वं तात ! विपिने गत्वा, प्रविश क्वापि कोटरे ।। २१ । ।
राजादीनां पृच्छतां च, त्वया वाच्यमिति प्रगे । निष्कलङ्कः पापबुद्धि-र्धर्म्मबुद्धिस्तु तस्करः ।। २२ ।।
तेनेति शिक्षितस्तातस्तथैव निखिलं व्यधात् । प्रत्यूषे मिलिते लोके, स ऊचे च तथैव तत् ।।२३।।
इतस्ततो विलोकन्ते, न च पश्यन्ति कञ्चन । लोकाः सर्वेऽपि साश्चर्या - स्तूर्णमुत्कर्णतां दधुः ।। २४ ।।
सहसोत्पन्नबुद्धिस्तु, धर्म्मबुद्धिस्तदाऽवदत् । राजानं प्रति देवेदं, कोटरं ज्वालयिष्यते ।। २५ ।।
देवो वा मानवो वापि, यथा प्रत्यक्षतां व्रजेत् । इत्युक्त्वा सहसोत्थाय, यावत्तज्वालयत्यसौ ।।२६।।
तावत्स जनकस्तस्मा-त्कोटरान्निर्गतः क्षणात् । कर्म्मणा प्रेरितो जीवो, जनन्या उदरादिव ।। २७ ।।
२०१ उपदेश सप्तति