________________
मूलादारभ्य तद्वृत्तमहङ्कारविपाकजम् । मानेन के न पीड्यन्ते, प्राणिनः पण्डिता अपि ।।३२।।
श्रुत्वा पुरोहितस्तेन, ज्ञानिना गदितं वचः । भवाद्विरक्तः प्रव्रज्य, तदन्ते प्राप निवृतिम् ।।३३।।
उज्झितोऽपि सुगतिं गतवान् श्री-धर्ममार्हतमवाप्य गुरुभ्यः । तेन मानव ! न मानविपक्षो, मान्य एष भवता भवबीजम् ।।३४।।
।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे चतुर्थ उपदेशः ।।४।।
१९८ उपदेश सप्ततिः ।