________________
"उपदेश:- ४"
मानोऽपि मान्योऽस्तु मनस्विनां कथं, विडम्बयन्त्रष्टविधाभिरङ्गिनः । यं प्राप्य स क्ष्मापतिपुत्र उज्झिता-भिधोऽपि जज्ञे निजजीवितोज्झितः । । १ । ।
अष्टविधमदफलं चेदम् -
रज्जाभोगे तिसिआ, अट्टवसट्टा पडंति तिरिए । जाईमएण मत्ता, किमिजाई चेव पावंति । । १ । ।
कुलमत्त सीआलत्ते, उट्टाईजोणि जंति रूवमए । वलमत्तावि पयंगा, बुद्धिमए बुक्कडा हुंति ।।२।।
रिद्धिमए साणाई, सोहग्गमएण सप्पकागाई । लाभमएण बइल्ला, हवंति इअ अट्ठमयदुट्ठा ।। ३ ।।
इति श्रीमहापुरुषचरित्रे ।।
राजा नन्दिपुरे रत्न- सारो नीतिलतावनम् । सिञ्चन्त्रम्बुदवत्सर्व- तापनिर्वापकोऽभवत् । । १ । । ।।१।।
तस्य प्रेमलता राज्ञी, साक्षात्प्रेमलतेव या । कोऽपि जीवोऽन्यदा तस्याः, गर्भे समुदपद्यत ।।२।।
जातास्तदनुभावतः ।
अशुभा दोहदास्तस्याः, नृपव्यापादनस्तैन्य-वञ्चनोल्लम्बनादयः ।।३।।
जातमात्रोऽपि बालोऽसौ, प्रच्छन्नं त्याजितस्तया । बहिर्बलिष्ठायुष्कत्वा-द्वराको न मृतः परम् ।।४।।
१९४ उपदेश सप्तति