________________
"उपदेशः-३" तेष्वप्यसौ क्रोधदवानलोऽङ्गिनां, प्रज्वालयत्यद्भुतपुण्यकाननम् । आसेवितो यः स्वपरोपतापकृत्, भवेदिहामुत्र च सूरविप्रवत् ।।१।।
श्रीवसन्तपुरे राजा, बभूव कनकप्रभः । सर्वाधिकारी सर्वेष्टः, सुयशास्तत्पुरोहितः ।।१।।
सूरस्तस्य सुतोऽत्यन्तकोपनः कलहप्रियः । योऽग्निवत् प्रज्वलन्नेव, नित्यं तिष्ठति दुष्टधीः ।।२।।
पितरि स्वर्गतेऽन्येद्युः, कोपनत्वेन तत्सुतम् । . मुक्त्वा पुरोहितपदे, भूभुजाऽन्यो निवेशितः ।।३।।
ततः स द्वेषमापन-स्तच्छिद्राणि गवेषयन् । नानाव्यापादनोपायां-स्तत्र भूपे व्यचिन्तयत् ।।४।।
दोहनावसरेऽन्येद्यु-लत्तया तं जघान गौः । तेन माहता सा तु, वराकी मूर्छिता मृता ।।५।।
आः ! किमेतत्कृतं पाप !, गौरियं मारिता कुतः । इत्यादि यत्तज्वल्पन्ती, हतानेन स्वपल्यपि ।।६।।
जाते कलकले तत्र, प्राप्तैर्नृपभटैरयम् । निबध्योपनृपं नीतः, सोऽपि तं वध्यमादिशत् ।।७।।
नानाविडम्बनापूर्व, ते नयन्ति पुराद्वहिः । तावत्तत्पुण्ययोगेन, तापसः कोऽप्युपाययौ ।।८।।
१९० उपदेश सप्तति