________________
"उपदेश:-२"
कषो भवः प्राणिगणस्य हिंसना-त्तस्याय एभ्यो भवतीति युक्तितः । उक्ताः कषाया भुजगा इवाङ्गिना-मेते कथं स्युः कुशलाय वद्धिताः ।।१।।
सकारणास्ते गतकारणा वा, विधीयमाना भववृद्धये स्युः । द्विरुक्तिकोद्वेजित एककुम्भकृ-द्यथा वृथाऽनर्थततीवितेनिवान् ।।२।।...'
तथाहि ग्राम एकस्मि-निवसन्ति स्म तस्कराः । . प्रायस्ते कर्षकाः सर्वे, परद्रव्यापहारिणः ।।१।। ..
यद्यथैवोक्तमेकेन, तथैवान्ये तु वादिनः ।.. द्विरुक्तिका इति ख्याता-स्तेन ते पश्यतोहराः ।।२।।
तत्र ग्रामेऽन्यदा कोऽपि, कुम्भकारः समाययौ । भाण्डैः प्रपूर्य शकटं, विक्रेतुं लाभवाञ्छया ।।३।। गन्त्रीमटाट्यमानां तां, वृषभाभ्यां निरीक्ष्य ते । अवोचन पर्षदासीनाः, धूर्यमेकं जिहीर्षवः ।।४।।
चित्रमीक्षध्वमीक्षध्वं, भो भो ग्रामीणमानवाः ।। एकनानडुहा याति, गन्त्री भाण्डभृतापि हि ।।५।।
एवमेवेति तैः सर्व-रुच्यमानमिदं वचः । निशम्य कुम्भकारोऽपि, चेतसीदमचिन्तयत् ।।६।।
एनमेकं हरिष्यन्ति, वृषभं पश्यतोहराः । यतः सनप्यसंश्चक्रे-ऽमीभिधुर्यो दुराशयः ।।७।।
१८६ उपदेश सप्ततिः ।