________________
॥ श्री धर्मतत्त्वाधिकारश्चतुर्थः ।।
___ "उपदेशः-१" सम्प्रति श्रीधर्मतत्त्वाधिकारश्चतुर्थः प्रारभ्यते
तक द्विधा सामान्यविशेषभेदाभ्याम् । तत्र पूर्व सामान्यधर्माधिकारोदाहरणानि - प्रातः समुत्थाय विहाय शय्या-मुपासकाः श्रीपरमेष्ठिमन्त्रम् । स्मरन्तु यस्मात्सकलेष्टयोगाः, श्रीदेववत् प्राग् भवतां भवन्ति ।।१।।
श्रीहर्षो नाम राजाभूत्, पुरे काम्पिल्यनामनि । श्रीदेवस्तस्य पुत्रोऽस्ति, श्रीदेव इव मूर्तिमान् ।।१।।
दिग्यात्रायै नृपोऽन्येयु-जिगीषुः सर्वभूपतीन् । चचाल सैन्यसम्भारे-रचलामपि चालयन् ।।२॥ .
कामरूपपुरस्वामी, दुर्जेयः किन्तु भूपतिः । चिरं युद्धे तयोर्जाते, नैकस्यापि परं जयः ।।३।।'
देवैर्निवारितो युद्धात्, श्रीहर्षः स्वपुरं ययौ । वैराग्येन सुतं राज्ये, न्यस्य प्राव्रजदात्मना ।।४।।
श्रीदेवोऽपि पितुर्वैरं, स्मरंस्तं भूपतिं प्रति । मन्त्रिभिर्वार्यमाणोऽपि, विजेतुमचलद्धठात् ।।५।।
चिरं युध्वाप्यसञ्जात-जयो भग्नपरिच्छदः । नष्दैकाकी महाटव्यां, प्राप्तः स्वल्पबलो हि सः ।।६।।
१८२ उपदेश सप्ततिः