________________
पुरा तत्र तपापक्ष-श्रीसोमप्रभसूरयः । सन्ति तन्मिलनार्थं ते, पुरान्तः सूरयो गताः ।।२७।।
अभ्युत्थानासनाद्यैस्तै-स्ते तत्र बहुमानिताः । . ऊचुस्तान् यूयमाराध्याः, येषामीदृग्विधा क्रिया ।।२८।।
प्रत्यूचुस्तेऽपि काऽस्माकं, प्रशंसा क्रियते प्रभो ! । धन्या यूयं यदाधारे, जागत्तिं जिनशासनम् ।।२९।। .
इति प्रीतिपरौ याव-त्तौ वार्तां कुरुतो मिथः ।। तावच्छालान्तरे जातं, कौतुकं यत्तदुच्यते ।।३०।।
एकस्य सिक्किका साधो-र्मूषकेन विनाशिता । . . गुरूणां पुरतोऽभ्येत्य, सरावां विदधे मुनिः ।।३१।। ,
तदा विद्याभिराकृष्टाः, श्रीजिनप्रभसूरिभिः । शालान्तर्वर्तिनः सर्वे, मूषका उपतस्थिरे ।।३२।।.
.
उन्नमय्य मुखं हस्तौ, संयोज्य भयभीरवः। . गुरूणां पुरतस्तस्थु-विनीताः शैक्षका इव ।।३३।।
शृण्वन्तु मूषका भो भो !, यः कश्चिदपराधवान् । स तिष्ठतु परे सर्वे, यान्तु स्वेच्छं चरन्तु च ।।३४।।
इत्याचार्यवचः श्रुत्वा, सर्वेऽपि त्वरितक्रमम् । उत्पत्य जग्मुरेकस्तु, स्थिरश्चौर इवाग्रतः ।।३५।।
१७९ उपदेश सप्तति