________________
"उपदेशः-४" .. साधर्मिकास्था गुरुभक्तितीर्थो-व्रती निवृत्तिश्च परिग्रहादेः । अमी गुणा: पेथडदेवसाधो-र्यथा बभूवुर्न तथा परेषाम् ।।१।।
वणिग् विद्यापुरे पेथा-ऽभिधो वसति निर्द्धनः । श्रीधर्मघोषसूरिभ्यः, श्रीधर्मप्रतिपत्तिकृत् ।।१।।
परिग्रहप्रमाणे च, तेषामेवाऽन्तिकेऽन्यदा । द्रम्मपञ्चशती स्वार्थे, यावत्रियमयत्यसौ ।।२।।
तावनिषिद्धों गुरुभि-ख़त्वा तद्भाग्यमुल्बणम् । तथा कार्यं यथा भद्र !, व्रतभङ्गो भवेन्न ते ।।३।।
ममतावन्ति भाग्यानि, क्व स्यां येरहमृद्धिमान् । , तथापि पञ्चलक्षेभ्योऽभ्यधिकं मे न कल्पते ।।४।।
त्वमिभ्यो भविता वत्स !, तव भाग्यं महद्यतः । इति श्रुत्वा गुरून्नत्वा, स प्राप्तो निजमन्दिरम् ।।५।।
तत्र दुर्भिक्षतोऽन्येद्यु-निर्वाहस्याप्यसम्भवे । भार्याप्रथमिनीयुक्तः, प्रस्थितो मालवं प्रति ।।६।।
क्रमान्मण्डपदुर्गस्य, प्रतोली यावदागतः । तावद्वामा स्वरं चक्रे, दुर्गा सर्पशिरःस्थिता ।।७।।
स तदाश्चर्यमालोक्य, भीतो यावद्विलम्बते । तावत्तमाह शास्त्रज्ञः, कोऽपि मुग्धोऽसि भो वणिक् ! ।।८।।
१७१ उपदेश सप्तति