________________
अमी मलीमसा लोक-व्यवहारबहिर्मुखाः । पशुप्रायाः स्वपरयो-रपि व्यक्तिं न जानते ।।२५।।
इत्याद्यनल्पसङ्कल्पान्, हृदि द्यात्वा शिलातले । क्वापि तं कुम्पकं बाढं, स्फोटयामास निर्दयम् ।।२६।।
क्षणान्तरे च सा जाता, शिला सर्वा हिरण्मयी । सकौतुकं सनिर्वेद, पुनर्योगीत्यचिन्तयत् ।।२७।।
अहो ! श्रीगुरुपादानां, प्रभावः कोऽपि नूतनः । यदीयमलमूत्राद्य-मपि स्वर्णस्य कारकम् ।।२८।।
कटरे ! तपसः शक्ति-र्वपुरे ! भाग्यवैभवम् । स्वर्णपुंवद् यदीयेयं, तनुः सर्वापि रैमयी ।।२९।। ,
मया क्लेशसहस्रेण, रससिद्धिविधीयते । अमीषां तु स्वभावेन, सा वपुःस्थैव विद्यते ।।३०।।
इत्यवेत्य समागत्य, नत्वा तांश्च युगोत्तमान् । स्वकीयमपराधं स, क्षमयामास योगिराट् ।।३१।।
ततो नागार्जुनस्तान् श्री-गुरून् कल्पद्रुमानिव । चिरमाराधयामास, वन्दनस्तवनादिभिः ।।२।।
इति सुरवल्लीमिव ये, मनुजा आराधयन्ति गुरुभक्तिम् । तेषामखिलसमीहित-पदार्थसिद्धिर्भवत्यचिरात् ।।३३।। ।। इति श्रीउपदेशसप्ततिकायां तृतीयेऽधिकारे तृतीय उपदेशः ।।३।।
१७० उपदेश सप्तति