________________
परिकर्मय सूत्राणि, प्रमार्जय गृहाङ्गणम् । निर्व्यापारा मम गृहे, कियत्कालं ललिष्यसि ।।२७।।
तेनेत्याक्रुश्यमाना सा, रुष्टा पितृगृहं गता। सगद्गदं जनन्यादेः, स्वदुःखं प्राह तत्कृतम् ।।२८।।
हरिरप्याह रे मूर्खे !, त्वदुक्तं विहितं मया । सा ब्रूतेऽहं भविष्यामि, राज्ञी तर्हि प्रसीद माम् ।।२९।।
हसित्वा हरिरप्याह, त्वद्भर्त्ता चेद्वदत्यथ । राज्ञी त्वं हि तदैव स्याः, ततः सापि तथा व्यधात् ।।३०।।
तस्यानुमत्या सा दीक्षा-मादत्ते स्म सविस्तरम् । . श्रीनेमिपार्श्वे दुःखौघ-च्छेदाच सुखिताऽभवत् ।।३१।।
अष्टादश सहस्राणि, स्वामिनः साधवस्तदा । परिवारेऽभवंस्तत्र, श्रीकृष्णः स्वामिनं जगौ ।।३२।।
भगवन् ! सर्वसाधूना-मद्य वन्दकान्यहम् । अस्मि दित्सुर्यदि भव-त्यादेशो भवतां प्रभो ! ।।३३।। .
दृष्ट्वा लाभमनुज्ञातः, कृतिकर्माणि दत्तवान् । ऋषीणां षोडशक्ष्माप-सहस्रपरिवारितः ।।३४।।
चटत्प्रकर्षहर्षेण, पूरितो भक्तिभासुरः । तदा स शुशुभे शत्रु-च्छेदोद्यतभटो यथा ।।३५।।
१६५ उपदेश सप्तति