________________
आज्ञाशूरस्य तस्यैत-द्वचोऽतिक्रमभीरवः । ओमिति प्रत्यपद्यन्त, समग्रं ते सभासदः ।।१८।।
अरोचमानोऽप्यन्येभ्य-स्तयोः पाणिग्रहो मिथः । कारितो वासुदेवेन, किमसाध्यं हि तादृशाम् ।।१९।।
गता तस्य गृहे सापि, स्फाराऽलङ्कारधारिणी । वर्यपल्यङ्कमारूढा, देवीव भुवमागता ।।२०।।
न तस्य गेहकृत्यानि, विनयं चापि नाकरोत् । स एव किन्तु सञ्जात-स्तदादेशवशंवदः ।।२१।।
वासुदेवाच्छङ्कमान-स्तां सुरीमिव मन्यते । सोऽपि तस्याऽभिसन्धिं तु, न वेत्ति हदि संस्थितम् ।।२२।।
आलापितोऽन्यदा वीरः, कृष्णेन गृहिणी तव । कृत्यानि कुरुते नो वा, विनीतः सोऽपि तं जगौ ।।२३।।
त्वत्सुता वर्यसौन्दर्या, देवीवाराध्यते मया । . हसन्ति सभ्याः सर्वेऽपि, वासुदेवोऽपि तं जगौ ।।२४।।
तस्याः पार्धात्समस्तानि, गेहकृत्यानि कारयः । मनागपि ममाशङ्कां, तस्या अपि च मा कृथाः ।।२५।।
गृहागतः स तां गाढं, तर्जयामास पापिनि ! । उपविश्य स्थिता कस्मा-दुत्तिष्ठ कुरु पाचनीम् ।।२६।।
१६४ उपदेश सप्तति