________________
"उपदेश:-२" ददाति यो वन्दकानि पादयोः, श्रीमद्गुरूणां विनयेन भावितः । उच्चैः पदं तस्य न दुर्लभं भवे-दर्थेऽत्र कृष्णः क्रियते निदर्शनम् ।।१।। .
अस्ति द्वारवती नाम, पुरी सुरपुरीसमा । अपसार्य समुद्रं या, धनदेन विनिर्मिता ।।१।।
कंसकैटभचाणूर-जरासन्धादिवैरिजित् । वासुदेवोऽन्तिमस्तत्र, भुङ्क्ते साम्राज्यसम्पदम् ।।२।।
यस्य क्षायिकसम्यक्त्वं, परदोषाऽविकत्थनम् । अपयुद्धनिषेधश्च, गुणा लोकोत्तरा अमी ।।३।।
दीक्षां जिघृक्षुर्यः कोऽपि, तनयस्तनिषेधनम् । तेन न क्रियते कन्या-विवाहेऽस्य तु निर्णयः ।।४।। .
यदा विवाहयोग्या स्यात्, पुत्री तजननी तदा । . , विभूष्य प्रेषयत्यन्तः-सभं कृष्णोऽपि तां वदेत्. ।।५।।
त्वं भविष्यसि किं राज्ञी, दासी वेति वदाऽङ्गजे ! राज्ञी यदि तदा तस्या-स्तपस्यां दापयत्यसौ ।।६।।
करोति कारयत्यन्यै-रतुच्छोत्सवसन्ततिम् । श्रामण्यं तत्त्वतः शक्र-राज्यादप्यधिकं यतः ।।७।।
चेद्दासी तत्तदीयाया-जनन्या एव मन्दिरे । तां प्रेषयति सैवाऽस्याः, विवाहादि करोति च ।।८।।
१६२ उपदेश सप्तति