________________
एवं बुभुक्षितावेतो, शीलस्यैव प्रभावतः ।। निष्पाद्य फलितं चूतं, सुहितौ विदधेतमाम् ।।१२।।
अथ प्राप्तो गृहे सोम-भट्टोऽपि ब्राह्मणाग्रणीः । भार्यामपश्यन्त्रप्राक्षी-न्मातरं सा गता व तु ? ।।१३।।
• सदौर्मनस्यं साप्याह, तत्स्वरूपं च मूलतः । उद्घाट्यालोकते याव-दनभाण्डानि स द्विजः ।।१४।।
तावत्तान्यन्नपूर्णानि, वीक्ष्य विस्मितमानसः । सानुतापः क्षणादानु-पदिकोऽभूत्तदऽध्वना ।।१५।।
केदं कलत्ररत्नं मे, भावीति विमृशन्मुहुः । . . त्वरितत्वरितं गच्छं-स्तामपश्यत् प्रियां पुरः ।।१६।।
यावदाह्वयते गाढ-शब्दैर्मा याहि हे प्रिये ! । न ते किञ्चित्करिष्यामि, विरूपमिति भाषिते ।।१७।।
अम्बिकापि तमायान्तं, वीक्ष्य विश्वासदुष्टधीः । कदर्थयित्वा मामेष, मारयिष्यत्यसंशयम् ।।१८।।
चिन्तयन्तीति निर्माय, शरणं नेमिनं जिनम् । पपात कूपे सौत्सुक्य-मादाय तनयावपि ।।१९।।
भट्टोऽपि किमिदं देवि !, त्वया पामरचेष्टितम् । कृतमित्युचरन् भूय-स्तत्रैव पतितः क्षणात् ।।२०।।
“तराम्" इत्यपि ।।
१३
उपदेश सप्तति