________________
कथं तत्पुरुषेणास्तु, मयि सङ्घपतिश्रुतिः । चेद्बहुव्रीहिणा सा स्या-द्धन्यंमन्यस्तदाऽस्म्यहम् ।।७।।
वन्दित्वा भरतः प्राह, तर्हि स्वामिन्निदं पदम् । मह्यं प्रासादमाधाय, देहि देहिप्रियङ्करम् ।।८।।
इन्द्रादिभिस्ततो देवैः, सङ्घन सहितो विभुः । उत्थायाऽक्षतवासांश्च, चिक्षेप भरतोपरि ।।९।।
शक्रस्तदानीमानीय, मालां दिव्यां महीपतेः । तत्पन्याश्च सुभद्रायाः, कण्ठे निक्षिप्तवान्, मुदा ।।१०।।
ततः सकलसामग्र्या, यात्रायै प्रस्थितो नृपः । शक्रोपनीतसौवर्ण-देवालयपुरस्सरम् ।।११।।
हस्त्यश्वरथपादातैः, प्रौढैः परिवृद्धैर्युतः । सपादकोटितनयै-रत्नाद्यैश्च विराजितः ।।१२।।
अथ सोमयशा राजा, शतपत्तननायकः । द्वियुक्सप्ततित्रिनाऽष्ट-सहस्रतनयाङ्गनः ।।१३।।
लक्षद्विपेन्द्रपञ्चन-सप्तलक्षतुरङ्गराट् । सपादकोटिपादाति-राजसप्तशतीवृतः ।।१४।।
युगजैकादशप्रौढ-रथलक्षसमन्वितः । द्वात्रिंशल्लक्षसुग्राम-स्वामी प्रस्थितवान् सह ।।१५।। त्रिभिविशेषकम् ।।
१५२ उपदेश सप्तति