________________
"उपदेशः-१४" धन्यस्य कस्यापि भवन्ति भाग्यतः, श्रीतीर्थयोगाः सकलेष्टदायिनः ।। तत्रापि सिद्धाचलभूरियं यया, हत्यादिदोषा अपि दूरतः कृताः ।।१।।
श्रावस्त्यामस्ति धात्रीश-स्त्रिशङ्ककुलदीपकः । त्रिविक्रम इति त्रात-त्रैलोक्यः स्वपराक्रमैः ।।१।।
सोऽन्यदा कानने क्वापि, क्रीडन्नीडनिवासिनम् । वटे कटुरटन्तं च, पक्षिणं कञ्चिदेक्षतः ।।२।।
दुष्टः शकुन इत्येष, बाणमाकृष्य तं जवात् । जघान सानुतापश्च, पश्चात्किञ्चिदजायत ।।३।। . .
कालान्तरे स भूजानि-वैराग्यभररङ्गितः। . अङ्गीकृत्य परिव्रज्यां, क्रमाजातो महाऋषिः ।।४।। उत्पन्नतेजोलेश्याकः, स दुस्तपतपोभरैः। - , प्रबोधयन् भव्यलोकान्, विजहार वसुन्धराम् ।।५।।
स खगोऽपि तदा मृत्वा, भिल्लः पल्लयामभूत् क्वचित् । कुर्वन्विविधपापानि, सञ्जातः स्वोदरंभरिः ।।६।।
अन्येषुः स ऋषिः क्वापि, विहरंस्तस्य दृक्पथे । पपात तेन यष्ट्याद्यै-स्ताडितः कुपितात्मना ।।७।।
कोपाटोपाकुलत्वेन, विस्मृत्याचारमात्मनः । स्वतेजोलेश्यया भिल्लं, तं वराकमदीदहत् ।।८।।
१४३ उपदेश सप्तति