________________
श्रुत्वेति नारदः प्राह, तन्माहात्म्यं तु वज्रिणः । मेरौ शाश्वतचैत्यानि, वन्दितुं समुपेयुषः ।।९।।
ततः शक्रोऽपि तां देवै-रानयामासिवान् दिवि । नहि कल्पलताप्राप्ती, भवेन्मन्दादरः सुधीः ।।१०।।
इत्थं सा स्वर्गलोकेऽपि, देवैः सन्तुष्टमानसैः । . सुबहून् सागरान् याव-दचिंता भक्तिभासुरैः ।।११।।
अत्रान्तरेऽत्र भरते, रावणो राक्षसेश्वरः । त्रैलोक्यकण्टको जात-स्तस्य मन्दोदरी प्रिया ।।१२।।
तयापि नारदमुखा-त्तन्माहात्म्ये श्रुते सति ।' .. प्रेरितो रावणः शक्र-मारराध धियां निधिः ।।१३।। ,
तुष्टः शक्रोऽपि तामों, मन्दोदर्याः समर्पयत् ।। त्रिसन्ध्यमतिहर्षेण, सापि पूजयति स्म ताम् ।।१४।।
अथाऽन्यदा दशग्रीवो, रामभार्यामपाहरत् । . कलत्रभ्रातृपुत्राद्यैः, प्रोक्तोऽप्येतां मुमोचं न ।।१५।।
बिम्बाधिष्ठायकोऽवादी-ल्लङ्कालङ्काधिपक्षयम् । मन्दोदर्या ततः सार्चा, न्यासीचक्रे पयोनिधौ ।।१६।।
इतश्च -
कर्णाटकदेशे कल्याण-नगरे शङ्करो नृपः । अभूजिनपदाम्भोज-भृङ्गोऽभङ्गुरभाग्यवान् ।।१७।।
१३२ उपदेश सप्तति