________________
जावालिपुरतस्तत्र, यवनाऽनीकमेकदा । आगतं तच देवेना-ऽश्ववारीभूय नाशितम् ।।१८।।
मुनिवेशभृतः सप्त, शेखा: कटकमध्यतः । प्राप्तास्तद्गुरवस्तत्र, भृत्वा रुधिरकुम्पकान् ।।१९।।
देवस्तुतिमिषाद्देव-गृहे ते वासकं स्थिताः । क्षिावा रक्तच्छटा रात्रौ, मूर्तिभङ्गं वितेनिरे ।।२०।।
रक्तस्पर्शेऽपि देवानां, प्रभा यातीति शास्त्रगीः । नष्टास्तदैव ते पापाः, स्वस्थता नहि तादृशाम् ।।२१।।
निरीक्ष्य तत्कृतं प्रातस्तत्तादृगसमञ्जसम् । विषादो धान्धलादीनां, प्रभूतो हृदयेऽभवत् ।।२२।।
वराकास्ते तु सप्तापि, शेखास्तत्रत्यभूभुजा । . विनाशिता भटान्प्रेष्य, चमूस्तु स्वपुरङ्गता ।।२३।। ,
अथ देवोऽवदत्क्लुप्तो-पवासं स्वाधिकारिणम् । खेदं मा कुरु निःशूके, मयापि न विभूयते ।।२४।।
संयोज्यैतानि खण्डानि, नवापि क्षिप सत्त्वरम् । नवसेरप्रमाणाया-स्त्वमन्तर्लपनश्रियः ।।२५।।
कपाटयुगलं देहि, दिनान् सप्तेति तद्वचः । श्रुत्वा स गौष्टिकः सर्वं, तत्तथैव विनिर्ममे ।।२६।।
११३ उपदेश सप्तति