________________
इदमुद्ग्राहितं देव !, देशस्येत्यवधारय । भूपोऽप्याह ममादेशं, विना कारितवान् कुतः ? ।।२२।।
उवाच सजनः चैत्य-पुण्यैकस्पृहयालवः । । अमी तव प्रसादेन, समृद्धा व्यवहारिणः ।।२३।।
तव द्रम्मान प्रदास्यन्ति, तन्मह्यं कुष्य मा विभो !। . द्रम्मान्वा चैत्यपुण्यं वा, रोचते यद् गृहाण तत् ।।२४।।
इत्युक्ते भूपतिः प्राह, चैत्यपुण्यं तदस्तु मे । मन्नाम्नैव परं वाच्यः, प्रासादः सोऽपि तं जगौ ।।२५।।
प्रासादो देवपादानां, सर्वोऽप्येष विजुम्भते । ... मम रङ्कस्य किं नाम, कीर्त्त कीर्तिकारकम् ।।२६।।
ततो भृशतमां तुष्ट-स्तस्मै पुण्यवते नृपः । . पुनः समर्प्य व्यापारं, स्वयं श्रीपत्तने ययौ ।।२७॥,
सजनोऽपि ततो भक्त्या, पट्टकूलमयं ध्वजम् । आरभ्य रैवतात् शत्रुञ्जयं यावद्वितीर्णवान् ।।२८।।
बाणष्ट रुद्रप्रमिते, ११८५ वर्षे विक्रमभूपतेः । अचीकरदिदं चैत्यं, सज्जनो दण्डनायकः ।।२९।।
कोटिर्लक्षद्विसप्तत्या, युक्ता तेन व्ययीकृता । जीर्णनाणकटङ्काना-मत्रेत्याहुर्बहुश्रुताः ।।३०।।
१. "ङ्करुद्रप्रमि।" इत्यपि ।।
९२
उपदेश सप्तति