________________
एवमज्ञानतो भुक्तं, देवस्वं दुःखकारणम् 1 रक्षणीयमतस्तद्धि, विवेकज्ञैः स्वशक्तितः । । १० ।।
अधिकारात्त्रिभिर्मासै-र्माठापत्यात्त्रिभिर्दिनैः । शीघ्रं नरकवाञ्छा चेत्, दिनमेकं पुरोहितः । । १ । ।
विन्ध्याटवीष्वतोयासु, शुष्ककोटरवासिनः । कृष्णसर्पाः प्रजायन्ते, देवदायोपहारिणः । ।१२ । । .
एवं देवद्रव्यरक्षाविनाशे, श्रुत्वा भव्याः ! स्पष्टदृष्टान्तयुग्मम् । कार्यों यत्नस्तस्य रक्षाविधाने, संसारः स्याद्वो यथा शीघ्रमल्पः || १३ ||
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे देवद्रव्योपरि ( एकोनविंशो विंशतितमश्च) उपदेशः । । १९-२० ।।
७४ उपदेश सप्तति