________________
विश्वपुरे क्षेमङ्करो राजा तस्य युगन्धरः पुत्रः । सोऽन्यदा वने कस्यापि मुनेः केवलज्ञानोत्सवं देवैः क्रियमाणं दृष्ट्वा सञ्जातजातिस्मृतिस्तदैवोत्पत्रवैराग्यो देवतादत्तवेषः प्रवव्राज । वन्दितो राजाद्यैः विजहार वसुन्धरावलये । चकार भूयांस्यपि तपांसि । अन्यदा तस्य मुनेः शुक्लध्यानाऽधिरूढस्याऽवधिज्ञानमुत्पेदे । आगतस्तत्रैव पुरे । राजादयो वन्दितुं गताः । प्रारब्धा तेनापि धर्म्मदेशना तत्र चावसरे कोऽपि कुष्ठी सर्वरोगराजधानीव, मक्षिकाणां पितृगृहमिव पदे पदे बालकाद्यैरपि कर्करादिभिरुपहन्यमानस्तत्र प्राप्तः । राजादयश्च तादृशदुर्दशानिपतितं दृष्ट्वा तस्य प्राच्यभवं मुनेः पार्श्वे पृच्छन्ति । मुनिः प्राह - कुसुमपुरे नन्दनागदेवौ द्वौ भ्रातरौ । वृद्धो व्यवहारे शुद्धः, अपरस्तु विपरीतः । अन्यदा तन्नगराधिपेन स्वकारितजिनमन्दिरे देवद्रव्यरक्षणाय नियुक्तौ, स्वशक्त्या सारां कुरुत: । अन्यदा नागदेवः क्षीणधनोऽन्तरान्तरा निर्लज्जतया स्वल्वं स्वल्पं तु देवद्रव्यं भुङ्क्ते । वृद्धभ्राता तु
-
जिणपवयणवुविकरं, पभावगं नाणदंसणगुणाणं । भक्खतो जिणदव्वं, अनंतसंसारिओ होइ । । १ । ।
जिणपवयणवुठ्ठिकरं, पभावगं नाणदंसणगुणाणं । रक्खतो जिणदव्वं, परित्तसंसारिओ होइ ।।२।।
जिणपवयणवुठ्ठिकरं, पभावगं नाणदंसणगुणाणं । वÎतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ||३||
७१ उपदेश सप्तति