________________
"उपदेश-१४" हस्तात् प्रस्खलितं क्षितौ निपतितं लग्नं तथा पादयोर्यन्मूर्होर्ध्वगतं धृतं कुवसनै भेरधो यद्धृतम् । स्पृष्टं दुष्टजनैर्घनैरभिहतं यहूषितं कीटकै-स्त्याज्यं तत्कुसुमं फलं दलमपि श्राद्धैर्जिनार्चाक्षणे ।।१।।
पुष्पैरेवंविधैः पूजा, ये कुर्वन्ति जिनेशितुः । तेषां हीनकुले जन्म, भूवल्लभनरेन्द्रवत् ।।२।।
पत्तने कामरूपाख्ये, चण्डालस्य कुलेऽभवत् । दन्तयुक्तः सुतः प्राच्य-कर्मणामनुभावतः ।।१।।
अरिष्टमिति विज्ञाय, जनन्या त्याजितो बहिः । स बालकः क्रमात्तत्र, तत्रत्यनृप आययौ ।।२।।
--5):
दृष्टश्च रूपवान् बालो, दयाद्रीभूतचेतसा । ग्राहितः परिवारेण, पालितः शिक्षितोऽपि च ।।३।।
भूमौ पतितलब्धत्वात्, स भूवल्लभसंज्ञकः । कलाः समस्ताः शिक्षित्वा, स जातः सर्ववल्लभः ।।४।।
अपुत्रिणा नृपेणाऽथ, स राज्ये विनिवेशितः । कक्षीकृता स्वयं दीक्षा, काले ज्ञानी बभूव च ।।५।।
अथाऽन्यदा स राजर्षि-रुत्पन्नामलकेवलः । पुत्रस्य प्रतिबोधाय, प्राप्तस्तत्रैव पत्तने ।।६।।
५३ उपदेश सप्तति