________________
तस्यास्ते विमलं तपोविधिमलं निश्चित्य सत्यंवदाः सत्यं प्राहुरिहाऽस्ति नैव कपटं न्याये यथा त्वत्कृते ॥ १२७॥
श्रुत्वा वाचमिमां चरव्रजमुखाच्चित्ते चमत्कारवांस्तामाकार्य वरादरेण नृपतिः पप्रच्छ भक्त्येत्यसौ । हे मात: . ! तप ईदृशं खरतरं कस्याऽनुभावात्त्वया शुद्धं साधु विधीयते वद मनःशङ्कां विहायोत्तमे ! ॥ १२८॥
सा प्राहाऽत्र तपस्कृतौ नरपते ! श्रीदेवगुर्वोर्ममाऽतुच्छः सूर्यकरावदातचरितः सम्यक्प्रभावोऽस्त्यहो । को देवस्तव को गुरुश्च जगतीत्युक्ते नृपेणाऽवदत् सा श्राद्धी जिनशास्त्रतत्त्वविशदा चेत्थं स्वरूपं तयोः ॥ १२९॥
नो रागाङ्गारसङ्गो न· मदनमदिरा न द्विषद्वेषदोषो नो सम्मोहप्ररोहो न विकटकपटाटोपसंपच्च यस्य । शान्तः कान्तस्त्रिलोकीकलनकुशलवित् कोऽपि कोपादिमुक्तस्त्यक्तः संसारपाशैः स भवति भविनां देवता दैवयोगात् ॥ १३०॥
१३१॥
ईदृग् देव इहाऽस्ति बिम्बरचनाध्येयोऽधुना सिद्धिद श्चित्ते मे सुगुरुस्तु संयमधुनः स्वान्यात्मतुल्याशयः । मित्रे शत्रुचये समोऽश्मनि मणै स्त्रैणे तृणोधै पुनर्नाम्ना सांप्रतमस्ति हीरविजयाचार्यः सुसाधूत्तमः 11 श्राद्धीवाक्यमिदं निशम्य नृपतिस्तां पूजयित्वाऽधिकं स्वस्थाने विससर्ज मन्त्रिणमथोचे स्थानसिंहाभिधम् । कस्मिन्नस्ति पुरे स हीरविजयाचार्यः सुसाधूत्तमः संप्रत्यऽप्यधिको यदीयमहिमाऽऽचारश्च पूर्वं श्रुतः ॥ १३२॥
मन्त्र्याख्यन् नृप! नास्ति तस्य वसतिर्ह्येकत्र देशे पुरे सर्वत्र द्विसहस्रसंयमिगुरोः पादश्रमेणाटनम् 1 वर्षामासचतुष्टयस्थितिमसावेकत्र कुर्वन् क्रमात् संप्रत्युत्तम धार्मिकेऽस्ति नगरे गन्धारके बन्दिरे १३३॥
||
५९