________________
रत्नस्वर्णभृतान्यनेकशकटान्यब्धेस्तटे
बादर
स्त्यक्त्वा तुच्छ भटावृतोऽम्बुधितरद्वीपेऽविशद्भेकवत् । तीर्थान्तस्तु हमाउनामनृपतिर्भूभुग् गृहान्तर्यथा हस्ती गन्धवरः स्ववैरिमदहृत्प्राप्तप्रतिष्ठोऽभितः
I
मत्वा नष्टसमस्तसंपदमसौ जीवन्मृतं बादरं तद्बन्धाग्रहमामुमोच हृदये दिल्लीपतिः शक्तिमान् । यद्वायुर्न तृणानि नीचनमनान्युन्मूलयत्युद्धतः सद्यो वृक्षचयं समुच्छ्रिततरं विस्तीर्णभूच्छायकम् तत्राज्ञां स्वभटैः समं कृतिवरः श्रीगुर्जरे मण्डले दिल्लीश: स समग्रभूमिवलये कीर्त्तिं यथाऽरोपयत् । खड्गं क्षालयति स्म नीरधिजले तीर्थे यथा निर्मल: प्राणी पाप्म निजं सुपात्रततये सद्वस्तुदानोद्यतः ॥ ७३॥ कृत्वा गुर्जरमालवादिकमहादेशेषु सौस्थ्यं पुनर्दिल्ल्यां मुद्गलनायकः शतगुणश्रीवृद्धिमानागतः एकच्छत्रमकण्टकं सुखभरं राज्य भारोत्तरं पुण्ये जाग्रति को न वाञ्छितततिं प्राप्नोति यस्माज्जनः 11 68 11 अन्येद्युः स सुपर्वपर्वतसमप्रोच्चालयोद्धव गतः पश्यन् स्वं नगरं विशालनयन: प्रोत्फुल्लचित्ताम्बुजः । मत्तुल्योऽयमभूदितीव विधिना स्पर्द्धिष्णुना पातित: संप्राप्तभ्रमिराशु कालसदनं प्राप्तः पृथिव्यां पतन् 11 धिग् धिग् धिग् विधिमेनमङ्गिनिवहं कृत्वा जगत्स्वामिनं गर्त्ताधूलिशयं करोति सहसा यः सज्जनो दुर्जनः । एवं सर्वजना विलापतुमुलं चक्रुस्तदा तत्पुरे सूर्येऽस्तं व्रजतीह को न विवश: शोके न चान्धो भवेत् ॥ ७६ ॥
७५॥
||
खद्योता इव तत्र सूरसुभटा अस्तङ्गते भास्करे तस्मिन् कालगृहं गते गतभयास्तत्पुत्रमनेसरम् ।
५०
७१ ॥
॥ ७२॥
10ON KNOCK