SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्री हेम विजय रचित श्रीहीरविजयसूरिपादुकाष्टकम् ॥ श्रीमान् कामगवीव कामितसुखं सूते स्म यः सेवितश्चक्रे यः सवितेव विश्वमखिलं सालोकमालोकितः । विद्युत्त्वानिव पापतापमहरद् यः संस्तुतः सूरिराट् सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ॥ १ ॥ सच्चक्रप्रणयी पयोरुहवनं भास्वानिवाभीशुभिः प्रीतास्वल्पकलापिकः कृषिभरं तोयैस्तडित्त्वानिव । विश्वं विश्वमतोषयत् स्ववचनैर्यः पुण्यनैपुण्यधी: सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ॥ २ ॥ .. आलोकं विलसत्समस्तकमलामोदं गभस्तेरिव स्तोमं तोयमुचामिवास्ति भुवनानन्दं पदं श्रेयसाम् । यं लोको बहु मन्यते स्मसकलः सर्वत्र सौवाप्तदृक् सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ॥ ३ ॥ • स्वाज्ञावर्तिषु मण्डलेषु निखिलेष्वानन्दतोऽचीकरत् . प्रीतो यद्वचनैः कृपावनघनैः शाहिर्हमाऊसुतः । जीवानामभयप्रदानपटहोद्धोषानघध्वंसिनः '. 'सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ॥ ४ ॥ . श्रीमान् . शाहिअकब्बरक्षितिपतिर्यद्वाग्भिरानन्दितः कृत्वा तत्करमुक्तिमुक्तिमनघां बिभ्रद् ददौ दक्षधीः । तीर्थं जैनजनाय तीर्थतिलकं शत्रुञ्जयोर्वीधरं सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ॥ ५ ॥ NL: 13131 O
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy