________________
इतश्च
शत्रुजयख्यातिमथो दधानं कावीति तीर्थं जगति प्रसिद्धम् । काष्ठेष्टकामृन्मयमत्र चैत्यं दृष्ट्वा विशीर्णं मनसेति दध्यौ ॥ २६ ॥ दृढं भवेच्चैत्यमिदं यदीह कृतार्थतोमेति ममापि लक्ष्मीः । अर्हद्वचोवासितमानसस्य मनुष्यतायाः फलमेतदेव ॥ २७ ॥ ततः श्रद्धावता तेन भूमिशुद्धिपुरःसरम् ।
कावीतीर्थे स्वपुण्यार्थं श्रीनाभेयजिनेशितुः ॥ २८ ॥ नंदवेदरसैणांकमिते संवत्सरे (१६४९) वरे ।
स्वभुजार्जितवित्तेन प्रासादः कारितो नवः ॥ २९ ॥ सारसारस्वतोद्गाररंजितानेकभूधवैः ।।
श्रीमद्विजयंसेनाख्यसूरिराजैः प्रतिष्ठितः ॥ ३० ॥ मूलस्वामी जिनपतियुगादीश्वरो यत्र भास्वत्
__द्वापंचाशत्रिदशकुलिकासंयुतः पुण्यसत्रम् । उच्चैरभ्रंलिहशिखरभृत्तोरणैरंचितश्री: - प्रासादोऽयं धरणीवलये नंदतादाशंशांकम् ॥ ३१ ॥ श्रीयुगादिजिनाधीशप्रासादेन पवित्रितः । .. ग्रामोऽपि वर्द्धतामेष सुखसंपत्तिभिश्चिरम् ॥ ३२ ॥
॥ इति प्रशस्तिः ॥ આ લેખમાં ૩ર પડ્યો છે. તેમાં પ્રથમના એક પદ્યમાં આદિનાથની સ્તુતિ કરવામાં આવી છે અને તે પછીના ૧૨ પદ્યોમાં, ઉપરના લેખ પ્રમાણેજ, પ્રતિષ્ઠાકર્તા આચાર્ય વિજયસેનસૂરિ પર્વતના કેટલાક તપગચ્છના મુખ્ય મુખ્ય આચાર્યોનો ઉલ્લેખ કરેલો છે.
૧૪માં પદ્યથી મંદિર બંધાવનાર ગૃહસ્થનું વંશવર્ણન શુરૂ થાય છે. તે मा प्रमाणे :OOOOOOOOO