________________
पद्माश्रयैरलमलंक्रियते स्म तेषां प्रीणन्मनांसि जगतां कमलोदयेन । पट्टः प्रवाह इव निर्झर निर्झरिण्याः
शुद्धात्मभिर्विजयदानमुनीशहंसैः ॥ १२ ॥ सौभाग्यं हरिसर्व[प]र्वहरणं रूपं च रंभापतिश्रीजैत्रं शतपत्रमित्रमहसां चौरं प्रतापं पुनः । येषां वीक्ष्य सनातनं मधुरिपुस्वःस्वामिघम्शिवो जाताः काममपत्रपाभरभृतो गोपत्वमाप्तास्त्रयः ॥ १३ ॥ तत्पट्टः प्रकटः प्रकामकलितोद्योतस्तथा सौधव[त] सस्नेहर्य[ति] राजहीरविजयस्नेहप्रियैर्निर्ममे । सौभाग्यं महसां भरेण महतामत्यर्थमुल्लासिनां बिभ्राणः स यथाजनिष्ट सुदृशां कामप्रमोदास्पदम् ॥ १४ ॥ देशाद् गूर्जरतोऽथ सूरिवृषभा आकारिताः सादरं श्रीमत्साहिअकब्बरेण विषयं मेवातसंज्ञं शुभम् । शा..........जपाणयोवतमसं सर्वं हरंतो गवां स्तोमैः सूत्रितविश्वविश्वकमलोल्लासैनभोर्का इव ॥ १५ ॥ चक्रुः फतेपुरम........[ ] भौम- . दृग्युग्मकोककुलमाप्तसुखं सृजंतः । अब्दकपावकनृपप्रमिते . १६३९ स्वगोभिः । सोल्ला............................बुजकाननम् ये ॥ १६ ॥ दामेवाखिलभूपमूर्द्धसु निजमाज्ञां सदा धारयञ् श्रीमान् शाहिअकब्बरो नरवरो [देशेष्व] शेषेप्वपि । षण्मासाभयदानपुष्टपटहोद्घोषानघध्वंसितः कामं कारयति स्म हृष्टहृदयो यद्वाक्कल्लारंजितः ॥ १७ ॥ यदुपदेशवशेन मुदं दधन्
निखिलमण्डलवासिजने निजे । T33140