________________
छायाभृन्नन्दनानन्दाः सुरसार्थमनोहराः । यत्रोच्चैरप्सरायन्ते सत्कामाः कमलेक्षणाः ॥ १० ॥ मत्तमातङ्गगामिन्यः सुरार्थाश्र्वलदर्शनाः ।। निन्द्या अपि मुदे सन्ति यत्र त्रस्तमृगीदृशः ॥ ११ ॥ शस्तहस्ताः स्फुरत्पद्मा दानिनः शोभनासेनाः ।। इभ्या इभा इवाऽऽभान्ति यत्राऽवग्रहशालिनः ॥ १२ ॥ यत्र प्रदत्तदृक्शैत्येऽर्हच्चैत्ये मुरजध्वनिः । धरत्यम्भोधरध्वानकलां वनकलापिनाम् ॥ १३॥ . यत्र चैत्योदरे दग्धधूपधूमो विजृम्भितः । अभूदभ्युन्नताम्भोदविभ्रमाद् बर्हिणां मुंदे ॥ १४॥ इति यत्राभवद्वात महाकौतुककारिणी । व्यानेश सा जगत्तैलबिन्दुरम्भ, इवाभितः ॥ १५ ॥ तथाहि समभूत् पूर्वं प्रह्लादनमहीपतिः नेताऽर्बुदगिरीन्द्रस्य स्वर्गस्येवाऽच्युताग्रजः ॥ १६ ॥ तेन श्रीशान्तिनाथस्य प्रतिमा गालिता पुरा । . तत्पातकादभूद् दुष्टं कुष्ठं तस्याऽवनीपतेः ॥ १७ ॥ तया तस्यार्थ लावण्यरूपादि प्राणशद् रुजा । महसां महिमा सर्पदृशेवौकोमणेः क्षणात् ॥ १८ ॥ स्वनाम्नाऽथाऽमुना राज्ञा प्रह्लादनपुरं पुरम् । वासितं पृथुलं पृथ्वीपुरन्ध्रीपुण्ड्रसन्निभम् ॥ १९ ॥ तदेनः शान्तये तेन चैत्यं पार्श्वप्रभोः पृथु । कारितं षोडशस्वर्णकपिशीर्षकशीर्षभृत् ॥ २० ॥
OOOOOOOOO