________________
विधाय कर्मणस्तापं सूरे: क्षमामयाचत 1 भाव्यं भयंकरं जाने, महादुष्टोऽस्मि दुर्भगः ॥ १२७ ॥
"प्राणिनोऽनागसो नित्यं, मृगयायां हता मया । हतमृग त्वचा श्रृंगात् हजीरामत्यभूषयम् ॥ १२८॥ चित्तोडस्य तु संग्रामे, क्रूरत्वेनावहिंसनम् । वृद्ध मानव बालाश्च, नच नार्योऽपि जीविताः ॥ १२९ ॥
पञ्चशतं खगानान्तु, जिह्वां स्वादेमि नित्यशः । मांसस्य भक्षणे दक्षः गर्वादानंदमाप्नुवन् ॥
भवतो देशनां श्रुत्वा पापकर्माऽत्यजं गुरो कर्मणां बन्धनं धित्वा मामुद्धर जगद्गुरो
१३० ॥
।
॥ १३१ ॥
I
॥ सूरिकृत भारतस्य दुर्दशा वर्णनम् ॥ शाहस्यार्त्तवचः श्रुत्वा, सूरिरानन्दमाप्तवान् विमुग्धान् धर्मवादे तान्, अबोधयत् सयुक्तिकम् ॥ १३२॥ एकोऽन्यं नास्तिकं ख्याति, स्वस्य सत्यन्तु मन्यते । विधाय स्पर्धते निन्दां देवधर्माभिमानतः
१३३॥
II
भारतावदशायास्तु, मुख्यमेतद्धि कारणम् I • विरोधे विग्रहे जाते, मुधान्योऽन्यं विनश्यति ॥ १३४ ॥
सत्ये नहि भवेच्छंका, प्रभुरेको हि विद्यते । आत्मोजसा यदा स स्यात् प्रणश्येत्तुतमस्तदा ॥ १३५ ॥
॥ देवीमिश्र पण्डितः वेदवाक्यवत् सूरिवाक्यममंस्त ॥ देवीमिश्रमपृच्छत्तु, शाहः सत्यं निगद्यताम् । अगादीत् सविपश्चित्तु, वेदवत् सूरिराड् वनः ॥ १३६॥ धर्मस्य चर्चना तत्र, प्रसंग आगतो बहु 1 उपदिदेश सम्राजं, सूरिः शुद्धेन चेतसा 11 १३७॥
८९