SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ પદર્શન २२५-३२६ । . .. १७. नैककारणतयापोति । आत्मतत्त्व० पृ. ३२४ । । १८ निमित्तमन्तरेण तु समुदायव्यवहारेऽतिप्रसङ्गः । आत्मतत्त्व० पृ० ३२४ । १८ रूपादिभिरेव समस्तार्थक्रियासिद्धेः किं तदतिरिक्तद्रव्यकल्पनयेति चेत् । न । तावन्मात्रेणैव समस्तार्थक्रियासिद्धेः किं रूपादिकल्पनयेत्यस्यापि वाचाटवचसोऽवकाशप्रसङ्गात् । प्रतीयमानत्वादिति चेत्, तुल्यम् । अभेदसाधनं बाधकमिति चेत् । किं तत् ? सहोपलम्भनियम इति चेत् , न, .... पीतशङ्खोपलम्भादौ श्वैत्यानुपलम्भेऽपि शङ्खोपलम्भात् । नासौ शङ्खः किन्तु शङ्ख इव तैमिरिककेशवदिति चेत् , अहो ! गुणवद्विद्वेषः यत् तैमरिककेशाः करतलपरामर्शप्रतिनियतापयर्थक्रिययोरपायान्न सन्ति इति व्यवस्थापयति, इह तु तत्सम्भवेऽपि शुभ्रतामात्रानुपलम्भा दिति । आत्मतत्त्व० पृ० ३२५-३२६ । २० व्यापकत्वादिति चेत् , वस्तुनोर्व्याप्तिरुपलम्भयो ? आये न विप्रतिपत्तिः । न च व्यापकानुपलब्धिमात्रेण व्याप्यतदुपलब्धी निवर्तेते, दहनानुपलब्धौ धूमतडु. पलब्ध्योरपि निवृत्तिप्रसङ्गात् । ... तस्मान्न व्यापकानुपलब्ध्या व्याप्यतदुपल ब्धयोनिवृत्तिः, किन्तु व्यापकनिवृत्तेः । आत्मतत्त्व० पृ० ३२७ ।। २१ अनैकान्तात् । अभास्वरं हि रूपं भास्वरेण सह नियमेनोपलभ्यते ततो भिन्नं चेति । आत्मतत्त्व० पृ० ३२८ । २२ धर्मविरोध एव कोऽत्रेति चेत् तदुपलम्भेऽप्यनुपलम्भः, तदभिधानेऽप्यनभिधानं, तन्निषेधेऽप्यनिषेध इत्यादि । आत्मतत्त्व० पृ० ३३० ।। २३ अभेदे च धर्मधर्मिणोर्दूरादूरतया ग्रहणे पट्वपटुनी कुतः ? आत्मतत्त्व० पृ० ३३० । २४ सदकारणवन्नित्यम् । वै० सू० ४.१.१ । परं वा त्रुटेः । न्या. सू० ४.२.१७. । २५ मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः । न्यासू० ४.२.२३ । परिच्छिन्नानां हि स्पर्शवतां संस्थानं त्रिकोणं चतुरस्रं समं परिमण्डलमित्युपपद्यते, यत् तत् संस्थानं सोऽवयवसन्निवेशः, परिमण्डलाश्चाणवस्तस्मात् सावयवा इति । न्यायभा० ४. २. २३ । २६ आकाशव्यतिमेदात् तदनुपपत्तिः । आकाशासर्वगतत्वं वा । न्यायसूत्र ४. २. १८-१९ । २७ षट्केन युगपद् योगात् परमाणोः षडंशता । षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः ॥ न्यायवा० ४. २. २५. मा यो सुमधुनी विज्ञप्तिमात्रतासिद्धि नाभन तिमाथी न्यायवार्तिकमा उधृत ४२वामां आवे छे.
SR No.005834
Book TitleShaddarshan Part 02 Nyaya Vaisheshik
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherUniversity Granthnirman Board
Publication Year1974
Total Pages628
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy