SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ગ્રન્થપ્રકાશકપ્રશસ્તિ ૩૨૯ तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । ___ कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बढेशेन निवारितः खकरखौ-ष्ठे पिण्डवाडापुरे ॥६॥ (वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानतपसां निधिरुग्रशीलः । न्याय विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-मतिमच्छरण्यः ॥७॥ तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु-तेजास्तपः श्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ॥८॥ सर्वाधिकश्रमणसार्थपतिर्मतीशः, पाता चतुःशतमितर्षिगणस्य शस्यः । गच्छाधिनाथपदभृजयघोषसूरिः, 'सिद्धान्तसूर्य' - यशसा जयतीह चोच्चैः ॥९॥ सद्बुद्धिनीरधिविबोधनबद्धकक्षः, वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ॥१०॥ कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव-श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासनआराधनाट्रस्ट-विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरतं श्रुतभक्तिः। वि.सं. २०६४ ।
SR No.005791
Book TitleUpshamanakaran Part 01
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy