SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ - १/९,१०] न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । भाविनि भूतवदुपचारः ॥ ९ ॥ भाविनीमवस्थां भूतवदुपचर्य भाव्यवस्थासम्बन्धि कार्यं कार्यमित्यर्थः । तेन यथा नृणामित्यादौ निष्पन्ने पदत्वे "रघुवर्णान्नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे" ॥२।३।६३॥ इत्यनेन णत्वं क्रियते; तथा रवणं, तक्षणमित्यादौ यद्यपि पदत्वं स्याद्युत्पत्त्यनन्तरं भावि तथापि भाविनः पदत्वस्य भूतवदुपचारान्नामावस्थायामपि रवणादिशब्दानां "रषवर्णात्-" ॥२।३।६३॥ इत्यनेन कृतणत्वानामेव न्यासः सिद्धः । निवेदकं त्वस्य "रवर्णात्-" ॥२।३।६३॥ इत्यनेन पद एव णत्वधानम् । तथाहि । णत्वं तावन्नृणामित्यादिपदेष्विव रवणादिनामस्वपि दृश्यते । “रवर्णात्-" ॥२।३।६३॥ इति सूत्रे च पदे एव विहितम्, ततो ज्ञायते नाम्नां णत्वे कर्तव्ये एष न्यायोऽस्तीति धिया सूत्रे पदे इत्युक्तम् । ___ अस्य अनैकान्तिकत्वाच्च अपाठीदित्यादौ कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये (पश्चिाद् ) वृद्धिस्तद्वाध्योऽट् च इति न्यायेनाट: सर्वकार्येभ्यः पश्चाद्भावित्वात्, पठे: स्वरादित्वे भाविन्यपि भूतवदनुपचरणाद्, "व्यञ्जनादेोपान्त्यस्यातः" ॥४।३।४७॥ इति वृद्धिः सिद्धा ॥९॥ _ यथासङ्ख्यमनुदेशः समानाम् ॥ १० ॥ सङ्ख्यया एकद्वयायादिवचननिर्देशेन चेति प्रकारद्वयेन मिथः समानां तुल्यानां पूर्वेषामुत्तरेषां च पदानां यथासंख्यं सङ्ख्याऽनतिक्रमेणैवानु अनुकूलं देशनं कथनं कार्यम् । आद्यमाद्येन, द्वितीयं द्वितीयेनेत्यादिरीत्यैव योजना कार्या, न त्वन्यथेत्यर्थः । योजनाया यादृच्छिकत्वे प्रसक्ते नियमनार्थोऽयं न्यायः । यथा "डेङस्योर्यातौ" ॥१।४६॥ इत्यादौ स्थानिनोरादेशयोश्च द्विद्विसङ्ख्यत्वेन द्विवचननिर्दिष्टत्वेन च समत्वाद्यथासङ्ख्यं योजना सिद्धा । एतन्यायाभावे तु डेङसिभ्यां सह यातोः प्रत्येकं योजनेत्याद्यप्याशङ्कयेत; निषेधकाभावात् । समानामिति किम् । “नमस्पुरसो गतेः कखपफिरःसः" ॥२॥३१॥ अत्र . नमस्पुरसोः कखाद्यैः सह समानवचननिर्देशेऽपि यथासङ्घयं नास्ति; सङ्घयया तुल्यत्वाभावात् । तथा "तौ मुमो व्यञ्जने स्वौ" ॥१।३।१४॥ इत्यत्र मुमयोरनुस्वारानुनासिकाम्यां सह समसङ्घयत्वेऽपि यथासङ्घयं नास्ति; वचननिर्देशेन तुल्यत्वाभावात् । . संवादकं त्वस्य ‘चछटठतथे' इति लघुना सूत्रेण सिद्धावपि "चटते सद्वितीये" ॥१॥३७॥ इति गुरुसूत्रकरणम् । तद्धि शषसानां चटतानां चैतन्यायाद्यथासङ्घयं योजना कार्येति ज्ञप्त्यर्थम् । चछेत्यादिसूत्रनिर्देशे तु यथासङ्खयं योजना न स्यात् । = १3
SR No.005716
Book TitleNyaya Sangraha
Original Sutra AuthorN/A
AuthorRatnavallabhvijay
PublisherOmkarsuri Aradhana Bhavan
Publication Year2001
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy