SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 30 [ જૈન દષ્ટિએ તિથિદિન અને પર્વારાધન-સંગ્રહવિભાગ तिथिरौदयिकी भवेन्न पूर्वेति, एवञ्चानेन शास्त्रेण द्वितीयाया एवोदयिकीत्वबोधनात् प्रथमायास्तदभावात् तत्प्राकतन्यास्सप्तम्या ५व वृद्धिः इति सिद्धं भवति" इति ग्रन्थेन पताकाकृताः “वृद्धौ कार्या तथोत्तरा" इति वचनस्य वृद्धायास्तिथेर्दिनद्वये पाक्षिकप्राप्तस्य पर्वतिथित्वस्य पूर्वदिने प्रतिषेधाय द्वितीयदिने औदयिकीत्वनियामकत्वम् अथवा पर्वतिथित्वस्यैव नियामकत्वमुक्तम् । परमिदमत्यन्तमयुक्तम् वृद्धायां तिथौ पूर्वोत्तरदिनयोः पर्वतिथित्वस्य पाक्षिकप्राप्तेः प्रथमदिने ततो निवृ. त्तेश्वासम्भवात् , कुत इति चेत् श्रूयताम् । पर्वतिथित्वं नाम आगमेनावश्याराध्यत्वेन निर्दिष्टतिथित्वम् , प्रामाणिकैः शास्त्रकारैः पर्वतिथिशब्देन व्यवहृतत्वम् , अष्टमीत्वाद्यन्यतमवत्त्वम् , औदयिकीत्वविशिष्टतादृशान्यतमवत्त्वं वा ? तत्र न प्रथमं पाक्षिकप्राप्तम् वृद्धतिथौ प्रथमेऽहनि प्रतिषेध्यं वा भवितुमर्हति, अवश्याराध्यत्वेनागमनिर्देश्यतावच्छेदकस्याष्टमीत्वाद्यन्यतमधर्मस्य वृद्धायां तिथौ दिनद्वय एव नियतानिवार्यसत्त्वेन आगमेनावश्याराध्यत्वेन निर्दिष्टतिथित्वस्यापि तथैव सत्त्वात् , अत एव द्वितीयमपि तथा भवितुं न युज्यते, शास्त्रकारीयपर्वतिथिव्यवहारविषयतावच्छेदकस्याष्टमीत्वाद्यन्यतमधर्मस्येव तन्नियतस्य तस्यापि दिनद्वये तादृशतिथौ निष्कम्पन्निवासात, तृतीयं तुरीयं वाऽप्यत एव पाक्षिकप्राप्तं पूर्वदिने वृद्धतिथितो व्यपनीतं वा नार्हति भवितुम् , केवलाया औदयिकीत्वसहितायाः वाऽष्टमीत्वाद्यन्यतमवत्तायाः द्वयोरेव दिनयोस्तादृशतिथौ निर्विघ्नं विद्यमानत्वात्। ____नन्वेवम् “ एका तिथिरेकस्मिन्नेव दिने पर्वतिथिर्भवति" इतिसिद्धान्तप्रवादो व्याहन्येतेति चेन्न, तादृशप्रवादस्यास्वीकृतितिरस्कृतत्वात् , किन्तु "एका तिथिः दिनद्वये पर्वतिथिर्भवन्ती अपि एकत्रैव दिने आराध्या भवति" इतिसिद्धान्तप्रवादस्यैव वास्तविकत्वात् । सिद्धान्ते च यथा न दोषस्तथा “वृद्धौ कार्या तथोत्तरा" इत्यंशस्य व्याख्याकरणकाले वक्ष्यते। ___ अनुपदमुद्धृत एव ग्रन्थे पूर्व “ पाक्षिकतया पर्वतिथित्वप्राप्तौ” इत्युक्त्वा पश्चादुत्तरस्मिन्नेव वाक्ये एवञ्च द्वितीयस्यां पर्वतिथावष्टम्यादावौदयिकीत्वं नियम्यते” इति कथनं पताकाकृतो महन्मीमांसामांसलमतित्वमवद्योतयति प्रत्याययति चैतद् यत् “पाक्षिकी प्राप्तिरेकस्य नियमनश्चान्यस्य" इति गृह्यतरं ज्ञानं निजगरुचरणसरोजसेवावशात्तेनैवैकेन समासादितम् । औदयिकीत्वनियमनं पर्वतिथित्वनियमनपर्यवसायितया न निन्द्यतामहतीत्यपि नोचितं वचनम् , पाक्षिकतया प्राप्तस्य साक्षान्नियामकतात्यागस्य निर्वाजत्वात् ।। किञ्च “ एवञ्चानेन शास्त्रेण द्वितीयाया पवौदयिकीत्वबोधनात् प्रथमायास्तभावात् “ इति ग्रन्थस्तं प्रश्नं पुनः पुरो नयति यत् प्रथमे दिनेऽपि पञ्चाङ्गानुसारेणौदयिक्यामष्टम्यादौ तदिनेऽनौदयिकीत्वबोधने वचनस्यास्य प्रामाण्यं परित्राणाहँ कुतः स्यात् ? धर्मशास्त्रस्याप्येतस्य तिथिप्रवृत्त्यादिरूपे गणितज्यौतिषस्य विषये वैपरीत्यबोधनेऽक्षमत्वात् । " तत्पूर्वतन्याः सप्तम्या एव वृद्धिः" इति तदीयवाक्यभागोऽपि प्राच्यं प्रश्नमिमं पुनः प्रोत्थापयति यद् वृद्धाया अष्टम्यादेः पूर्वदिने आराधनाप्रसक्तिनिराकृतिलाभाय तद्दिने तस्या अनौदयिकीत्वकल्पनायाः कथञ्चिदौचित्यसम्भवेऽपि पूर्वस्या अपर्वतिथेरौदयिकीत्वकल्पना तद्दिने किम्प्रयोजना ? सर्वस्य जन्यसदायतनस्य समयस्य तिथिमत्तानियमनिहाय सा कल्पनाऽपि सप्रयोजना, नातो निर्दिष्टं नोद्यमवतरति, इत्यपि कथनं न शोभनं, निर्मर्यादकल्पनाविपिने विहरतः । कृतस्तमुद्योजयतो वा तन्नियमनिकारेऽपि प्रतिकूलवैकल्येन कथितकल्पनाया व्यर्थक्लेशवहनत्यानुचितत्वात् । पताकायाः द्वादशे पृष्ठे “ एवं सति यन्मध्यस्थेनैतच्छ्लोकपादव्यारव्यानावसरे "तेन नियमविधिविधायकेन शास्त्रेण तिथिवृद्धौ उत्तरस्यामेवौदयिकीत्वं नियम्यत इति क्वचित् टिप्पणे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005673
Book TitleTithidin ane Parvaradhan tatha Arhattithibhaskar
Original Sutra AuthorN/A
AuthorJain Pravachan Pracharak Trust
PublisherJain Pravachan Pracharak Trust
Publication Year1977
Total Pages552
LanguageGujarati, Hindi, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy