SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ (२२) ॥ श्रीशत्रुञ्जयतीर्थमण्डन-आदिनाथाय नमः ॥ ।। ॐ ह्रीँ श्रीधरणेन्द्रपद्मावतीपरिपूजिताय शङ्खेश्वरपार्श्वनाथाय नमो नमः ॥ ॥ णमोत्थु णं समणस्स भगवओ महावीरस्स ॥ ॥ नमो नमः सूरिपुरंदरश्रीहरिभद्रसूरये ॥ अनेकान्तः एव कान्तः येन विना तु लोकस्य, व्यवहारो न सर्वथा । नमोऽनेकान्तवादाय, भुवनगुरवे ननु ॥ अथेह जिहानकभाविजीमूतजेलभूषणझञ्झादिजातजलवर्षाजनितजगज्जीवजीवितजिघांसुजविजङ्गमोतुङ्गजलवालकाद्रितुङ्गशिखरसन्निभजलतरङ्गोच्छ्लज्जलपिप्पलकादिजलचरजालाकुलजलधिवद् दुस्तरे करेणुकण्ठीरवकिरिवकैक्षवासिकासरादिकान्तारपश्वाकीर्णकिसलयादिकीर्णकारस्कारुद्धोच्छरकालीनकालिन्दीसूकिरणकणकारणिककुपथप्राप्तपथिककणतिकोटिकीर्णकान्तारवद् दुष्पारे प्रपञ्चेऽस्मिन् विह्वलत्ववशजातवन्दारुविच्चुवै रिव्रातविनिर्गतवाशिष्ठवे रेवेपथुवातवात विस्मितविपश्चिद्विरचितवासवावासस्थितवासवाधिकाऽवन्ध्यवीध्रवर्णनावर्षणक्शीभूतविश्ववसुधापति विजितविभावरीविगमाऽनन्तरभाविविभातकालीनविभाकरविभाविभववरा विनिद्रीभूतविकचविमलविसप्रसूतविसराक्षिविसमेशुव्यावल्लविद्धविश्ववशीकर्तृविश्रुतवासवावासवासिनी वल्लभावितरितविश्रब्ध विनोदवरिवस्यादिव्यस्तविबुधवृन्दवन्द्यवासवादिविशिष्टविभुविन्दुव्रातविरचितविशिष्टवरिष्ठसपर्याविभूतिवि निर्जिताऽखिलविश्वविभवः अखिलव्यंसकवावदुकव्याहारचातुरीहरक्षुद्रमृगयूथसन्त्रासनसिंहनादकल्पाऽनेकान्तवादप्रकाशककेवलालो कालोकितलोकालोकः श्रमणो भगवान् महावीरः निस्त्रिंशनिर्यातनियोगनिगडनियन्त्रितनिमेषमात्रान् प्रतिनिमेषनिष्पतन्नेकनरकनिष्पीडन निभनिकृष्टनिष्पीडननिकरनिबन्धननिर्गच्छन्निरन्तरार्त्तनादनिकृतनदीशनिनादान् चतुरन्तसंसारकान्तारप्रसारप्रसृमरविश्वविजित्वरव्यथाविधुरान् वस्तुस्थित्या विभज्यवादं संवेदयन्तोऽपि वितथवासनावासिताऽन्त:करणनिमित्तक वक्रवावदूकवितरितविपर्यस्तविज्ञानविडम्बितान् वैरङ्गिकानपि वैधयत्वमाप्तान् नियतिप्रातिकूल्येन, विवेकवैकल्येन, उपायज्ञानाभावेन, सम्यग्वस्तुतत्त्वाऽनवबोधेन, वितथविकृष्टविकृतविकरालैकान्तवादवासनावशवर्तित्वेन, युक्तिपुरस्सरं सम्यग्ज्ञानप्रदातृसंयोगाभावेन Jain Education International १. जिहानकः = प्रलयकालः २. जलभूषणं = वायुः ३. कक्षः = महाऽरण्यम् ४. वाशिष्ठं = रक्तम् ५. वेरम् • शरीरम् ६. वीध्रं = स्वभावतो निर्मलम् ७. विसप्रसूतं कमलम्. ८. वरिवस्या= सेवा ९. विन्दुः = विज्ञः । For Personal & Private Use Only www.jainelibrary.org
SR No.005532
Book TitleAnekantjaipataka Part 01
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages370
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy