SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ७३ अधिकारः) व्याख्या-विवरण-विवेचनसमन्विता (५३) आह-कथं पार्थिवद्रव्यसत्त्वाद्यव्यतिरिक्तत्वेऽप्यबाद्यसत्त्वस्य पार्थिवद्रव्य ..........* व्याख्या ....... इहत्यत्वसत्त्वमेव 'पाटलिपुत्रका'दित्वासत्त्वम्, एवं सति यथा तदिहत्यत्वेन सत्, एवं पाटलिपुत्रका'दित्वेनापि स्यात्, तत्सत्त्वाव्यतिरिक्तत्वादितरासत्त्वस्य । यथा वा 'पाटलिपुत्रका'दित्वेनासत् तथा इहत्यत्वेनापि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात् तत्सत्त्वस्य । एवं घटकालमृत्पिण्डादिकालत्वं च । तथा श्यामत्वसत्त्वं रक्तत्वाद्यसत्त्वं चाङ्गीकृत्य भावना कार्या । ततश्चेत्यादि । ततश्च-एवं च सति तदितररूपापत्त्यादिना तस्य-पार्थिवद्रव्यादिसत्त्वस्य इतररूपापत्त्यादिना-अबादिद्रव्यत्वादिरूपापत्त्यादिना । 'आदि'शब्दात् तदभावपरिग्रहः । किमित्याह-अवस्तुत्वप्रसङ्गः, अभावापत्तिरिति निगमनम् । आहेत्यादि । आह-कथं पार्थिवद्रव्यसत्त्वाद्यव्यतिरिक्तत्वेऽपि कस्येत्याह-अबाद्यसत्त्वस्य पार्थिवद्रव्यसत्त्वादेः अवधिभूतस्य, अबाद्यात्मकत्वं सुष्ठवप्यबाद्यसत्त्वात्मकत्वं भवतु ......... मनेतिरश्मि ...... (૨) દ્વિતીય દોષઃ જલાદિઅસત્ત્વ સાથે, જો પાર્થિવદ્રવ્યસત્ત્વનો સંપૂર્ણતયા અભેદ થશે તો પાર્થિવદ્રવ્યસત્ત્વ, અબાદિઅસત્ત્વ દ્વારા પૂર્ણપણે ગ્રસ્ત થઈ જશે (બાકી તે બેની એકરૂપતા ન ઘટે) અને તો તે અબાદિઅસત્ત્વરૂપ બની જતાં – તે પાર્થિવદ્રવ્યસત્ત્વનું અલગ કોઈ અસ્તિત્વ જ નહીં રહે... (૫૩) પૂર્વપક્ષઃ એક વાત સ્પષ્ટ નથી થતી, કે પાર્થિવસત્ત્વ સાથે જળઅસત્ત્વનો અભેદ હોય, તેટલા માત્રથી પાર્થિવસત્ત્વ જળરૂપ શી રીતે બને? અભેદ તો જળના અસત્ત્વ સાથે છે, જળ સાથે ............................. विवरणम् ....................... ____ 34. 'आदि'शब्दात् तदभावपरिग्रह इति । अबाद्यसत्त्वस्य वास्तवस्य सत: पार्थिवद्रव्यादिसत्त्वेन सहैकरूफ्तायामभ्युपगम्यमानायां परस्य द्वौ दोषौ प्रसज्येते । तद् यथा-यद् यतोऽभिन्नं तत् तदेव, यथा पार्थिवद्रव्यादिसत्त्वस्यैव स्वरूपम् । ततश्चाबाद्यसत्त्वस्य पार्थिवद्रव्यादिसत्त्वतया परिणामात् सर्वथाऽभाव एवं । एवं चाबादिसत्त्वस्य तत्प्रतिपन्थिनाऽबाद्यसत्त्वेन प्रतिस्खलनात् पार्थिवद्रव्यादिसत्त्वे सर्वात्मना सङ्क्रमेण पार्थिवद्रव्यसत्त्वाक्रान्ते क्षेत्रे सत्ता स्यात् । एवं च पार्थिवादिद्रव्यस्य अबादिस्वभावतापन्ना अबादिद्रव्यस्य वा पार्थिवादिरूपता । न चेदृशं वस्तु समस्तीति बलादुभयोरपि अभाव एवेत्येको दोष: । यद्वा अबाद्यसत्त्वेन पार्थिवद्रव्यसत्त्वस्य सर्वात्मना ग्रस्तत्वात्, अन्यथा एकरुपताया अभावात्, पार्थिवादिद्रव्यस्याभाव एव स्यात् । इति द्वितीयो दोष इति ।। 35. पार्थिवद्रव्यसत्त्वादेरवधिभूतस्येति । अबाद्यसत्त्वं हि पार्थिवद्रव्यसत्त्वमवधिमपेक्ष्य व्यवह्रियते १. 'भाव इत्यभिप्रायमङ्गीकृत्य उक्तलक्षणपरविवक्षानादरेण परिग्रहः' इति ख-च-पाठो भ्रान्तिमूलको भाति । २. 'सर्वथा भाव एव' इति पाठो नास्ति च-प्रतौ, पूर्वमुद्रिते तु 'सर्वथा भाव' इति पाठः, स चासम्यक्, प्रकृते तु 'सर्वथाऽभाव एव' इत्येव पाठस्य D-आदिहस्तप्रतानुसारेणोचितप्रतिभासित्वात्। ३. 'रूपतां' इति च-पाठः। ४. पूर्वमुद्रिते तु 'सर्वात्मना पाथिवद्रव्यसत्तया स्वरूपताया अभावात्' इति पाठः, तस्य चाशुद्धत्वात् N-प्रतानुसारेणात्र शुद्धपाठः संस्थापितः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005532
Book TitleAnekantjaipataka Part 01
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages370
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy