SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४४ પરિશિષ્ટ - ધર્મતીર્થનો મહિમા + यथा विषमदेहा अपि तीर्थकृतो धृति-संहनने केवलभावे च तुल्याः तथा प्ररूपणायामपि तुल्या: । यतः “चरमेऽपि" भगवति वर्धमानस्वामिनि तदेव केवलज्ञानं त एव च प्रज्ञापनीया भावा ये ऋषभादीनाम्, ततः कथं न तुल्या प्ररूपणा? ।।२०३।। श्लोक २०३ टीका २ तत्त्वार्थाधिगमसूत्र सम्बन्धकारिका आ. देवगुप्तसूरि टीका + कियत् पुनस्तदित्याहद्विविधमनेकद्वादशविधमहाविषयममितगमयुक्तम्। संसारार्णवपारगमनाय दुःखक्षयायालम्।।१९।। (आर्या) __ व्याo- द्विविधमित्यादि । वक्ष्यमाणमेतन्महाविषयं सर्वद्रव्याण्यसर्वपर्यायाणि त्रैकाल्यमस्येति। अमितगमयुक्तं, गमाः पन्थानो नया: वक्ष्यमाणास्तैरसङ्ख्येयैर्युक्तमभिसन्ततम्। कियद्गुणमित्याह- संसारेत्यादि, संसृतिः संसारः, संसरणं वा संसारः, स नामादिश्चतुर्विधो वक्ष्यते, स एव अर्णवः संसारार्णवः। कथं चासावर्णवः, नरकतिर्यग्मनुष्यामरगतिचतुष्टयदुस्तरविपुलपात्रः । प्रियाप्रियविरहसम्प्रयोगक्षुदभिघातादिसन्निपातप्रतिभयानेकदुःखागाधसलिलः परोपघातिक्रूरानार्यजनानेकमकरविचरितविषमः मोहमहानिलप्रेरणाध्मायमानगम्भीरभीषणप्रमादपाताल: नरकादिविकृतभीमवडवामुखग्रस्यमानानेकपापकर्मसत्त्वः रागद्वेषप्रबलानिलोद्धतसंजायमानवीचीप्रसृताशयवेलः तदेवमस्य भगवन्तो यतयो द्वादशाङ्गविपुलशरीरं सम्यग्दर्शनायोपबद्धसन्धिः प्राणिदयादिव्रतसम्पन्नकनिरुद्धाश्रवद्वारं सन्तोषमितस्वादूदकाद्युपहितपावनं विशुद्धज्ञानसन्निहितनिर्यामकं सकलचारित्रविधानानुकूलपवनप्रेरितं विशुद्धध्यानबलोपहितसर्वमङ्गलरक्षं प्रवचनयानपात्रमारुह्य संसारार्णवस्य पारप्राप्तिफलं शिवमक्षयमनामयं मोक्षमवाप्नुवन्तीत्येवमेतत् अलं पर्याप्तं संसारार्णवपारगमनायेत्युच्यते, अत एव तरन्त्यनेन तद्वाधिगम्येति तीर्थमित्युक्तं, अन्येऽपि पृथिवीकायिकादयः सत्त्वाः संसारस्य लोकस्य कर्मप्रेरिताः पारं गच्छन्तीति ज्ञापनार्थं दुःखक्षयायालमिति विशेषितम्।।१९।। किमस्य माहात्म्यमित्याहग्रन्थार्थवचनपटुभिः, प्रयत्नवद्भिरपि वादिभिर्निपुणैः । अनभिभवनीयमन्यैर्भास्कर इव सर्वतेजोभिः ।।२०।। आर्या व्याO- ग्रन्थार्थेत्यादि । प्रत्येकं पटुशब्दः, सन्ति हि केचित् यथाऽधीतग्रन्थपटवो नार्थपटवः, केचिच्चानधीतग्रन्था अप्यर्थपटवः, केचिदप्यनधिगतग्रन्थार्था अपि स्वविकल्पितवचनपटव इत्यतो विशेषयति त्रिष्वपि ये पटवः । एवंविधा अपि केचिदुदासीना भवन्तीत्याह। प्रयत्नवद्भिरपि विजगीषोद्यतैः, वादिभिर्निपुणैः न्यायकुशलैः, अनभिभवनीयमन्यैरधृष्यमन्यैर्वादिभिरन्यैस्तीर्थिकैः। किमिव, भास्कर इव सर्वतेजोभिः । भास्कर इव मणिप्रदीपादिभिः सर्वतेजोभिरनभिभवनीयः इदं तीर्थं देशयामास ।।२०।। श्लोक १९-२० टीका Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005530
Book TitleDharmtirth Part 01
Original Sutra AuthorN/A
AuthorYugbhushanvijay
PublisherGangotri Granthmala
Publication Year2007
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy