SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ૨૮૧ પરિશિષ્ટ - ભાવતીર્થ - દ્વાદશાંગી ये प्रज्ञापयितुं-वक्तुं शक्यन्ते ते प्रज्ञापनीयाः अभिलाप्या इत्येकोऽर्थः, ते च भू-भूधर-विमान-ग्रह-नक्षत्रादयः । एतद्विपरीता अप्रज्ञापनीयाः। द्वावपि च राशी अनन्ती, परं महान् परस्परं विशेषः। तथाहि-प्रज्ञापनीया भावाः सर्वेऽपि समुदिताः सन्तोऽनभिलाप्यानां भावानामनन्तभागो भवति, अनन्ततमे भागे वर्त्तन्त इति भावः। तेषामपि प्रज्ञापनीयानां भावानामनन्ततम एव भागः 'श्रुते' द्वादशाङ्गलक्षणे सूत्ररचनया निबद्धः, अनन्तकस्याऽनन्तभेदभिन्नत्वादित्यभिप्रायः ।।९६४ ।। आह कथमेतत् प्रतियते यथा 'प्रज्ञापनीयानामनन्तभागः श्रुते निबद्धः?' उच्यतेजं चउदसपुव्वधरा, छट्ठाणगया परोप्परं होंति। तेण उ अणंतभागो, पनवणिज्जाण जं सुत्तं ।।९६५ ।। 'यद्' यस्मात् चतुर्दशपूर्वधराः 'षट्स्थानगताः' अनन्तभागादिषट्स्थानवर्तिनः परस्परं भवन्ति । कथम्? इति चेद्, उच्यतेइह चतुर्दशपूर्वी चतुर्दशपूर्विणः किं तुल्यः? किं वा हीनः? किं वाऽभ्यधिकः? इति चिन्तायां निर्वचनं तुल्यो वा हीनो वा अभ्यधिको वा। यदि तुल्यस्तदा तुल्यत्वादेव नास्ति विशेषः। अथ हीनस्ततो यदपेक्षया हीनस्तमुद्दिश्याऽनन्तभागहीनो वा असङ्ख्येयभागहीनो वा सङ्ख्येयभागहीनो वा सङ्ख्येयगुणहीनो वा असङ्ख्येयगुणहीनो वा अनन्तगुणहीनो वा। अथाभ्यधिकस्ततो यदपेक्षयाऽभ्यधिकस्तं प्रतीत्याऽनन्तभागाभ्यधिको वा असङ्ख्येयभागाभ्यधिको वा सङ्ख्येयभागाभ्यधिको वा सङ्ख्येयगुणाभ्यधिको वा असङ्ख्येयगुणाभ्यधिको वा अनन्तगुणाभ्यधिको वा। आह समाने सर्वेषामप्यक्षरलाभे षट्स्थानपतितत्वमेव कथं जाघटीति? उच्यते-एकस्मात् सूत्रादनन्ता-ऽसङ्ख्येय-सङ्ख्येयगम्यार्थगोचरा ये मतिविशेषाः श्रुतज्ञानाभ्यन्तरवर्तिनस्तैः परस्परं षट्स्थानपतितत्वं न विरुध्यते। तदुक्तम्- अक्खरलंभेण समा, ऊणहिया हुंति मइविसेसेहिं । ते पुण मईविसेसे, सुयनाणब्भंतरे जाण।।(विशे० गा० १४३) एवंविधं च षट्स्थानपतितत्वं प्रज्ञापनीयानामनन्ततमभागमात्र एव श्रुतनिबद्धे घटमानकं भवति। यदि हि सर्व एव प्रज्ञापनीया भावाः श्रुते निबद्धा भवेयुस्तर्हि चतुर्दशपूर्विणोऽपि परस्परं तुल्या एव भवेयुर्न षट्स्थानपतिता इति। अत एवाह'तेन' कारणेन यत् किमपि 'श्रुतं' चतुर्दशपूर्वरूपं तत् प्रज्ञापनीयानामनन्ततमो भागो वर्त्तते इति।९६५ ।। श्लोक ९६४-९६५ टीका २ तत्त्वार्थसूत्र सिद्धसेनगणिटीका .. तस्याप्तस्यार्थस्य तद्गणधरवचनं प्रतिपादकमित्याप्तवचनं भण्यते। यद्वा गणधरवचनमेवाप्तवचनम्, निश्रयोपजायमानत्वात् आप्तवचनमुच्यते। एवमागमादिष्वपि घटमानमायोज्यमिति। आगच्छत्याचार्यपरम्परया वासनाद्वारेणेत्यागमः, उपदिश्यते-उच्चार्यते इत्युपदेशः, ऐतिह्यमेवमेतद् वृद्धाः स्मरन्तीति, आम्नायते-अभ्यस्यते निर्जरार्थिभिरित्याम्नायः, प्रकर्षेण नामादिनयप्रमाण-निर्देशादिभिश्च यत्र जीवादयो व्याख्यातास्तत् प्रवचनम्, जिना रागादिसन्तानविजि(वर्जि?)तास्तेषामिदं वचनमिति। एवमेभिरनर्थान्तरवर्तिभिः एकोऽर्थः प्रतिपाद्यते द्वादशाङ्गं गणिपिटकमितियावत्, स चावश्यकादिराचारादिश्च ।। अध्याय - १, सूत्र २० टीका Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005530
Book TitleDharmtirth Part 01
Original Sutra AuthorN/A
AuthorYugbhushanvijay
PublisherGangotri Granthmala
Publication Year2007
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy