SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १७३६ • अविद्याप्ररूपणा • द्वात्रिंशिका-२५/१९ यथाऽनित्येषु घटादिषु नित्यत्वस्य, अशुचिषु कायादिषु शुचित्वस्य, दुःखेषु विषयेषु सुखरूपस्य, अनात्मनि च शरीरादावात्मत्वस्य अभिमानः । तदुक्तं“अनित्याऽशुचि-दुःखाऽनात्मसु नित्य-शुचि-सुखात्मख्यातिरविद्येति" (योगसूत्र २-५) । 'दृग्दर्शनयोः = पुरुषरजस्तमोऽनभिभूतसात्त्विकपरिणामयोः भोक्तभोग्यत्वेनाऽवस्थितयोरेकता (-दृग्दर्शनकता) = अस्मिता। तदुक्तं-- "दृग्दर्शनशक्त्योरेकात्मते वाऽस्मिता" (योगसूत्र २-६)। अभिमानः = ख्यातिः, “नित्यो घटः, ध्रुवा पृथिवी, ध्रुवा सचन्द्र-तारका द्यौः, अमृता दिवौकस' इति । ___तथा 'स्थानाद् बीजादुपष्टम्भाद् निःस्पन्दाद् निधनादपि । कायमाधेयशौचत्वात् पण्डिता ह्यशुचिं विदुः ।।' ( ) इति वैयासिकी गाथामाश्रित्य षड्विधहेतुतः अशुचिषु = परमबीभत्सेषु कायादिषु = देहाऽङ्गोपाऽङ्गादिषु शुचित्वस्य अभिमानः = विपर्यासप्रत्ययः, 'नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्राऽऽयताक्षी हावभावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवे'ति लक्षणः । एतेनाऽपुण्ये पुण्यप्रत्ययः अनर्थेऽर्थविपर्यासश्च व्याख्यातः । तथा दुःखेषु = वक्ष्यमाणरीत्या (द्वा.द्वा.२५/२२ पृ.१७४०) दुःखात्मकेषु विषयेषु सुखरूपस्य अभिमानः = भ्रमः, अनात्मनि च शरीरादौ = भोगाऽधिष्ठाने शरीरे पुरुषोपकरणे वा मनसि आत्मत्वस्य अभिमानः = दृग्विपर्ययः। अत एव ग्रन्थकृता ज्ञानसारे → नित्यशुच्यात्मताख्यातिरनित्याशुच्यनात्मसु । अविद्या, तत्त्वधीर्विद्या, योगाचार्यैः प्रकीर्तिता ।। 6 (ज्ञा.सा.१४/१) इत्युक्तमिति पूर्वमपि (पृ.१२५१) दर्शितम् । तदुक्तं पतञ्जलिना योगसूत्रे ‘अनित्येति । भावितार्थमेवेदं सूत्रम् । नवरं शुक्तिरजताद्यविद्यानां तु संसाराऽहेतुत्वान्नाऽत्र गणनेति भावागणेशः ।। अविद्या न प्रमाणं न प्रमाणाऽभावः किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति (यो.सू.२/५ भा.) योगसूत्रभाष्ये व्यास आह । तदुक्तं गरुडपुराणे → अनात्मन्यात्मविज्ञानमसतः सत्स्वरूपता । सुखाऽभावे तथा सौख्यं माया विद्याविनाशिनी ।। - (ग.पु. ) इति । तदुक्तं विष्णुपुराणे अपि → अनात्मन्यात्मबुद्धिर्याऽनर्थे (= अस्वे) स्वमिति या मतिः । अविद्यातरुसम्भूतिबीजमेतद् द्विधा स्थितम् ।। 6 (वि.पु.६/७/११) इति प्रागुक्तं(पृ.१२५१) स्मर्तव्यम् । बौद्धानामपि सम्मतमेवाऽविद्याहानम्, → द्वे धम्मा पहातब्बा-अविज्जा च भवतण्हा च 6 (प.सं.म.१/१/१/६७) इति पटिसम्भिदामग्गवचनादित्यवधेयम् । अस्मितामाह- दृग्दर्शनयोरिति । योगसूत्रसंवादमाह- ‘दृग्दर्शनशक्त्योः ' इति । अत्र राजमार्तण्डवृत्तिજાણવી. તેથી પતંજલિ મુનિએ યોગસૂત્રમાં કહેલ છે કે – “અનિત્ય-અશુચિ-દુઃખ અને જડ પદાર્થમાં मश: नित्य-शुयि-सु५ भने मात्मानी बुद्धि थवी ते भविधा छ.' 6 ६५ = शस्ति = शिशति भेट. यैतन्यस्व३५ पुरुष. तथा र्शन = शनशति =२४९ અને તમોગુણથી અભિભવ નહિ પામેલ સાત્ત્વિક પરિણામ =સત્ત્વગુણપ્રધાન અંતકરણતત્ત્વ. પુરુષ ભોક્તા તરીકે રહેલો છે તથા અંતઃકરણ ભોગ્ય તરીકે રહેલ છે. પુરુષ ચેતન છે અને અંતઃકરણ જડ છે. બન્ને ભિન્ન છે. છતાં અનાદિ કાળથી સાથે રહેલ હોવાના કારણે પુરુષ અને અંતઃકરણમાં જે એકતાની બુદ્ધિ થાય છે તે અસ્મિતા કહેવાય. તેથી તો યોગસૂત્ર ગ્રંથમાં કહેલ છે કે – “દફશક્તિ અને દર્શનશક્તિની १. मुद्रितप्रतौ '...त्मतैवाऽस्मिता' इत्यशुद्धः पाठः । २. हस्तादर्श ....स्मिते' इत्यशुद्धः पाठः । ..... चिनिद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy