SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ • कर्मानुसारेण जगद्व्यवस्थोपपत्तिः · ११०७ द्वचनमपि निरस्तम्, प्रकृतेर्जन्यत्वाऽऽपाताच्च । यदपि कृष्णोपनिषदिक्रीडते बालको भूत्वा पूर्ववत् सुमहोदधौ । संहारार्थं च शत्रूणां रक्षणाय च संस्थितः ।। ← (कृ. १८) इत्युक्तं तदपि स्पष्टमेवेशस्य राग-द्वेषाऽऽक्रान्तत्वं संसारित्वव्याप्यं साधयति । एतेन → कर्ता सर्वस्य विश्वस्य पात -संहारकारकः ← (गणे. उत्त३ / १ ) इति गणेशोत्तरतापिन्युपनिषद्वचनं निरस्तम्, जगदीश्वरस्य नैष्ठुर्यापत्तेश्च । अत एव द्यावापृथिवी जनयन् देव एकः ← ( श्वेता.३/३, म. ना. २ / २, शि.सं. २६) इति श्वेताश्वतरोपनिषद्-महानारायणोपनिषत् - शिवसङ्कल्पोपनिषद्वचनं प्रत्याख्यातम्, कर्म विना जगत्कर्तृत्वाऽयोगात्, तत्सत्त्वे च संसारित्वध्रौव्यात् । एतेन सोऽकामयत 'बहु स्यां प्रजायेय ← ( तै. २/६/४) इति तैत्तिरीयोपनिषद्वचनं तदैक्षत 'बहु स्यां प्रजायेये 'ति ← (छां.६/२/३) इति छान्दोग्योपनिषद्वचनं, → सोऽकामयत द्वितीयो म आत्मा जायते ← (बृह. १/२/४) इति बृहदारण्यकोपनिषद्वचनं, → अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ।। ← (म.भा. वनपर्व३०/२८) इति च पूर्वोक्तं (पृ.१०९७) महाभारतवचनमपि निरस्तम् । तदुक्तं द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिःकर्मपूर्वकं जगत्, कर्मप्रवर्तनाभ्युपगमात् सर्वप्राणिनाम् ← ( द्वा.न.च.पृष्ठ.४३९) इति । यत्तु ज्ञान-धर्मोपदेशेन पुरुषकैवल्याय करुणया प्राण्यनुग्रहाय तदुपपत्तेः । भोग-विवेकख्यातिरूपकार्यकरणेन चरितार्थचित्तनिवृत्तौ हि कैवल्यं भवति । अतः तदुपयोगिवैराग्यनिष्पत्तये दुःखबहुललोकसर्जनोपपत्तिः ← (ना.भ. १/२५ पृ. ३२ ) इति नागोजीभट्टेनोक्तं तत्तु उदराSSस्फालनेन शूलोत्पादनतुल्यम्, दुःखबहुललोकसर्जनाभावेऽप्यभ्यास-परवैराग्याभ्यां कैवल्यलाभसम्भवात्, तत्सर्जनेऽपि नास्तिकानां वैराग्याद्यनुत्पादाच्च । यत्तु स्कन्दमहापुराणे प्रकृतिं पुरुषं चैव प्रदर्श्याशु जगत्पतिः । क्षोभयामास योगेन परेण परमेश्वरः ।। ← (स्क.पु.५/२/५/१३) इत्युक्तं यच्च कूर्मपुराणे प्रकृतिं पुरुषं चैव प्रविश्याऽऽशु महेश्वरः । क्षोभयामास योगेन परेण परमेश्वरः ।। ← ( कू.पु.पर्व. ४ / १३ ) इत्युक्तं तत्तु सर्वथैवाऽनुचितम्, करुणादिसदाशयं विना स्वेच्छामात्रेण सकलजीवक्षोभणस्य नैष्ठुर्याऽऽपादकत्वात् । तथा च श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ← ( श्री. भा. १०/४/४१) इति श्रीमद्भागवतवचनमप्यनुपपन्नं स्यात्। इत्थमन्वय-व्यतिरेकव्यभिचारान्न नैर्घृण्यापादकं दुःखबहुललोकसर्जनं न्याय्यम् । एतेन → अचरितार्थत्वाच्चित्तस्य जन्तूनीश्वरः पुण्यापुण्यसहायः सुख-दुःखे भावयन्नपि नाकारुणिकः ← (त.वै.१/२५ पृ. ७८) इति तत्त्ववैशारदीकृतो वाचस्पतिमिश्रस्य वचनमपि निरस्तम्, पुण्यापुण्यापेक्षत्वे पुण्यापुण्यप्रयोजक- यमनियमादि-ब्रह्महत्यादिप्रवृत्तावीशस्य स्वातन्त्र्यभङ्गेन कर्तृत्ववैयर्थ्यापातात् । એક જ ઇશ્વરમાં અનુગ્રાહકત્વ અને અનનુગ્રાહકત્વ માનવું પડશે. તેમ જ ઈશ્વરીય અનુગ્રહથી અમુક જીવને અમુક ફળ મળે છે, બીજાને બીજા પ્રકારનું ફળ મળે છે. તેથી ઈશ્વરમાં ફળની અપેક્ષાએ પણ વિભિન્ન અનુગ્રાહકતા માનવી પડે. બાકી તો એકસરખી અનુગ્રાહકતા માનવામાં આવે તો બધાને કાયમ એકસરખું જ ફળ ઈશ્વર આપે - આવું માનવાની સમસ્યા ઊભી થાય. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy