SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ७२० • नानाविधभावस्वरूपद्योतनम् • द्वात्रिंशिका-१०/२५ शिरोदकसमो भावः क्रिया च खननोपमा। भावपूर्वादनुष्ठानाद् भाववृद्धिरतो ध्रुवा ।।२५।। शिरेति । शिरोदकसमः = तथाविधकूपे सहजप्रवृत्त शिराजलतुल्यो भावः । क्रिया च खननोपमा शिराऽऽश्रयकूपादिखननसदृशी । अतो भावपूर्वादनुष्ठानाद् भाववृद्धिर्बुवा, जलवृद्धौ कूपखननस्येव भाववृद्धौ क्रियाया हेतुत्वात् । भावस्य दलत्वेऽपि बहुदलमेलनरूपाया वृद्धेस्तदन्वय __ भाव-क्रिये समुद्दिश्याह- 'शिरे'ति । शिरोदकसमो भावः = योगजिज्ञासादिर्यद्वा वैराग्यादिर्यद्वा वक्ष्यमाणः (द्वा.द्वा.१३/३ पृ.८९२) मुक्त्यद्वपादिपरिणामो यद्वा कर्मोपशमादिभावो यद्वा सद्धर्मगोचरोपादेयतानुविद्धश्रद्धा-मेधा-धृत्यादिपरिणतिः यद्वा कुशलचित्तन्यासलक्षणप्रणिधानादिशुभाशयः यद्वाऽध्यात्मादियोगरूपी वक्ष्यमाणः यद्वाऽऽध्यात्मिकादिस्वरूपः शुभाशयः । तदुक्तं संन्यासगीतायां → सूक्ष्माऽवस्था तु भावस्य त्रैविध्यमवलम्बते। आध्यात्मिकाऽऽधिदैवाऽऽधिभौतिकानीति शास्त्रतः ।। _ (सं.गी.१/६६) इति । प्रकृते यथागमं स्वभूमिकानुसारी सदनुप्ठानयोग-क्षेम-शुद्धि-वृद्धिकारी सदुपदेशाधभिव्यङ्ग्यो भावः सर्वत्र ग्राह्यः । यथोक्तं योगबिन्दौ → शिरोदकसमो भाव आत्मन्येव व्यवस्थितः । प्रवृत्तिरस्य विज्ञेया चाभिव्यक्तिस्ततस्ततः ।। - (यो.विं. ३४९) इति । प्रकृते → एवं कम्मोवसमा सद्धम्मगयं उवाहिपरिसुद्धं । थेवं पणिहाणादि वि बीजं तस्सेव अणहं ति ।। एयं च एत्थ णेयं जहा कहिंचि जायम्मि एयम्मि । इहलोगादऽणवेक्खं लोगुत्तरभावरुइसारं ।। पायमणक्खेयमिणं अणुहवगम्मं तु सुद्धभावाणं । भवक्खयकरं ति गरुयं बुहेहिं सयमेव विनेयं ।। 6 (उप.पद.२३०-२३२) इति उपदेशपदवचनानि अनुसन्धेयानि । अतः कारणात् भावपूर्वात् = प्रणिधानादिभावसहिताद् अनुष्ठानात् = सदनुष्ठानाद् भाववृद्धिः ध्रुवा = निश्चिता । जलवृद्धौ कूपखननस्येव भाववृद्धौ = पयोवृद्धिस्थानीयभाववृद्धौ खननस्थानीयायाः क्रियाया हेतुत्वात् । ननु भाववृद्धौ भावस्य कारणत्वं परमार्थतो युज्यते अन्तरङ्गकारणत्वात्, तदुक्तं योगबिन्दौ → अतस्तु भावो भावस्य तत्त्वतः सम्प्रवर्तकः । शिराकूपे पय इव पयोवृद्धेर्नियोगतः ।। 6 (यो.बि. ३४५) इति । क्रिया तु बहिरङ्गत्वादन्यथासिद्धेति चेत् ? न, भावस्य = कामास्रवाधुच्छेदकपरिणामस्य भावं प्रति दलत्वेऽपि = अन्तरङ्गकारणत्वेऽपि बहुदलमेलनरूपायाः = नानान्तरङ्गकारणसमवायलक्ष હ સારા ભાવ એટલે પાણીની શિરા હ. ગાથાર્થ :- પાણીની શિરા સમાન ભાવ છે તથા ક્રિયા તો ભૂમિને ખોદવા સમાન છે. તેથી ભાવયુક્ત याथ. यो. भाववृद्धि थाय छे. (१०/२५) ટીકાર્થ :- અમુક પ્રકારના કૂવામાં સહજ-સ્વાભાવિક રીતે પાણીની શિરાઓ રહેલી હોય છે. કૂવામાં રહેલી સ્વાભાવિક શિરાઓમાં વિદ્યમાન પાણી સમાન ભાવ છે. તથા જે જમીનમાં પાણીની શિરાઓ રહેલી છે ત્યાં કૂવો ખોદવાની ક્રિયા સમાન ધર્મક્રિયા છે. આથી ભાવસહિત આરાધના ક્રિયા કરવાથી ચોક્કસ ભાવવૃદ્ધિ થાય છે. કૂવો ખોદવાની ક્રિયા જેમ જલવૃદ્ધિમાં કારણ છે તેમ ધર્મક્રિયા ભાવવૃદ્ધિનો હેતુ છે. જો કે ભાવનું અંતરંગ કારણ ભાવ જ છે તેમ છતાં ધર્મક્રિયાની હાજરીમાં અનેક પ્રકારના ભાવો ભેગા થાય છે અને ધર્મક્રિયા ન કરવામાં આવે તો તેવા પ્રકારના ભાવો ભેગા નથી થતા. આમ અનેક અંતરંગકારણસ્વરૂપ ભાવોના સમૂહ સ્વરૂપ ભાવવૃદ્ધિ ધર્મક્રિયાના અન્વય-વ્યતિરેકને १. हस्तादर्श ‘प्रवृत्ति...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy